________________
A
अनुयोग मलधा
वृत्तिः अनुयोग अधि०
रीया
इतिकृत्वा' अस्मात्कारणाद् अनन्तरोक्तमुपपद्यत इति शेषः, एतदुक्तं भवति-उपयोगपूर्वका अनुपयोगपूकाश्च वाचनाप्रच्छनादयः संभवन्त्येव, तत्रेह द्रव्यावश्यकचिन्ताप्रस्तावादनुपयोगपूर्वका गृह्यन्ते, अत एव सूत्रेऽनभिहितस्याप्यनुपयुक्तत्वस्याध्याहारस्तत्र कृतः, अनुपयोगस्तु भावशून्यता, तच्छ्न्यं च वस्तु द्रव्यमेव भवतीत्यतो वाचनादिभिस्तत्र वर्तमानोऽपि द्रव्यावश्यकम् , अनुप्रेक्षा तूपयोगपूर्विकैव संभवति अतस्तत्र वर्त्तमानो न तथेति भावार्थः। अत्राह-नन्वागमतोऽनुपयुक्तो वक्ता द्रव्यावश्यकमित्येतावतैवेष्टसिद्धः शिक्षितादिश्रुतगुणसमुत्कीर्तनमनर्थकम्, अनोच्यते, शिक्षितादिगुणोत्कीर्तनं कुर्वन्निदं ज्ञापयति-यदुवंभूतमपि निर्दोषं श्रुतमुच्चारयतोऽनुपयुक्तस्य द्रव्यश्रुतं द्रव्यावश्यकमेव भवति, किं पुनः सदोषम् ?, उपयुक्तस्य तु स्ख|लितादिदोषदुष्टमपि निगदतः भावश्रुतमेव भवति, एवमन्यत्रापि प्रत्युपेक्षणादिक्रियाविशेषाः सर्वे निर्दोषा अप्यनुपयुक्तस्य तथाविधफलशून्या एव संपद्यन्ते, उपयुक्तस्य तु मतिवैकल्यादितः सदोषा अप्यमी कर्ममलापगमायैवेत्यलं विस्तरेण । अत्राह-ननु भवत्वेवं, किन्तु हीनाक्षरे सूत्रे समुचारिते को दोषो? येनोक्तमहीनाक्षरमिति, अत्रोच्यते, लोकेऽपि तावद्विद्यामन्त्रादिभिरक्षरादिहीनैरुचार्यमाणैर्विवक्षितफलवैकल्यमनर्थावाप्तिश्चं दृश्यते, किं पुनः परममन्त्रकल्पे सिद्धान्ते?, तथाहि-राजगृहनगरे समवसृतस्य भगवतश्चरमतीर्थाधिपतेर्वन्दनार्थ विबुधविद्याधरनरनिवहः श्रेणिकश्च सपुत्रः समाययौ, ततो भगवदन्तिके धर्म श्रुत्वा प्रतिनिवृत्तायां परिषदि कस्यचिद्विद्याधरस्य गगनोत्पतनहेतुविद्यासंबन्ध्येकमक्षरं विस्मृतिपथमवततार, विस्मृते च
NSAR
॥१६॥
Jain Education International
For Private Personal Use Only
www.jainelibrary.org