SearchBrowseAboutContactDonate
Page Preview
Page 340
Loading...
Download File
Download File
Page Text
________________ अनुयो० मलधारीया वृत्तिः उपक्रमे प्रमाणद्वारं ॥१६८॥ यणसहस्स छग्गाउआई तत्तो अ जोयणसहस्सं । गाउअपुहुत्त भुअगे पक्खीसु भवे धणुपुहुत्तं ॥२॥ इहौधिकपश्चेन्द्रियतिरश्चां प्रथममवगाहना चिन्त्यते-सा चोत्कृष्टा योजनसहस्रं जघन्यं तु पदं सर्वत्राङ्गलासङ्ख्येयभागरूपत्वेनाविशेषान्नोच्यते, स्वयमेव भावनीयम्, एते च पञ्चेन्द्रियतिर्यञ्चो जलचरस्थलचरखचरभेदात्रिधा भवन्ति, तत्रौघिका जलचराणां प्रथममवगाहना निरूप्यते-साऽप्युत्कृष्टा योजनसहस्रं १, तत|स्तेषामेव सम्मूर्च्छजानां तावन्मानैव २, तत एतेषामेवापर्याप्तत्वविशेषितानामुत्कृष्टाऽप्यनुलासङ्ख्येयभागमानव ३, तदनन्तरममीषामेव पर्याप्तत्वविशिष्टानामुत्कृष्टा योजनसहस्रम् ४, इतस्तेषामेव गर्भव्युत्क्रान्तिकानामुत्कर्षतो योजनसहस्रम् ५, अत एतेषामेवापर्याप्तत्वालिङ्गितानामुत्कृष्टाऽप्यनुलासख्येयभागः ६, ततोऽप्यमीषामेव पर्याप्तानां उत्कृष्टा योजनसहस्रम् ७ इति जलचरपञ्चेन्द्रियतिरश्चां सप्त अवगाहनास्थानानि, अत्र च सर्वत्र योजनसहस्रमानं स्वयम्भूरमणमत्स्यानामवसेयम् । इदानीं स्थलचरेषु निरूप्यते-तेऽपि चतुपदोरःपरिसर्पभुजपरिसर्पभेदात्रिविधा भवन्ति, अत आदावौधिकचतुष्पदस्थलचराणामुच्यते-सा चोत्कृष्टपदवर्तिनी देवकुर्वादिगतगर्भजद्विरदानाश्रित्य षड्गव्यूतप्रमाणा निश्चेतव्या १, ततस्तेषामेव सम्मूछेनजत्वविशेषितानां सा गव्यूतपृथक्त्वं २, ततोऽपर्याप्तानामुत्कुष्टाऽप्यनुलासङ्ख्येयभागः ३, पर्याप्तानां गव्यूतपू ॥१६८॥ तपृथक्त्वं २, ततोऽपर्याप्ताहव्यूतप्रमाणा निश्चेतव्या लचराणामुच्यते-सा चोत्कृष्ट Jain Educatio n al For Private & Personel Use Only Mw.jainelibrary.org
SR No.600060
Book TitleAnuyogadwarasutram Uttarardham
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages546
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy