________________
वृत्तिः
अनुयो० मलधा
रीया ॥१६॥
उपक्रमे प्रमाणद्वार
जोवायुवनस्पतिष्वङ्गलासङ्ख्येयभागावगाहीनि यथोक्तानि सप्त सप्त स्थानानि वाच्यानि, नवरमौधिकबादरवनस्पतिषु पर्याप्तेषु च तेषु जघन्यतोऽङ्गुलासङ्ख्येयभागरूपा, उत्कृष्टतस्तु समुद्रगोतीर्थादिगतपद्मनालाद्याश्रित्य सातिरेकयोजनसहस्रमाना अवगाहना द्रष्टव्या, अब्राह-ननु यदीत्थं भेदतोऽवगाहना चिन्त्यते तदा नारकासुरकुमारादिष्वप्यपर्याप्तपर्याप्तभेदतः कस्मादसौ न प्रोक्ता?, सत्यं, किन्तु ते लब्धितः सर्वेऽपि पर्याप्ता एव भवन्ति, अतोऽपर्याप्तत्वलक्षणस्य प्रकारान्तरस्य किल तत्रासम्भवान्न भेदतस्तचिन्ता, विचित्रत्वाद्वा सूत्रगतेरित्यलं विस्तरेण । अथ द्वीन्द्रियादिपदे अवगाहनामानमाह-तत्रौघिकदीन्द्रियाणां अपर्याप्तानां पयाप्तानां चेति स्थानत्रये अवगाहनाऽत्र चिन्त्यते, एतेषु बादरत्वस्यैव सद्भावात्, सूक्ष्मत्वाभावतो न तच्चिन्तासम्भवः, द्वादश च योजनानि शरीरावगाहना स्वयम्भूरमणादिशङ्कादीनामवसेया, एवं त्रीन्द्रियेष्वपि स्थानत्रये अवगाहना भावनीया, नवरं गव्यूतत्रयं शरीरावगाहना बहिर्दीपवर्तिकर्णशृगाल्यादीनामवगन्तव्या, एवं चतुरिन्द्रियेष्वपि, नवरं गव्यूतचतुष्टयं शरीरमानं बहिर्दीपवर्तिनां भ्रमरादीनाम् । अथ पश्चेन्द्रियतिर्यकपदेऽवगाहनां निरूपयितुमाह
पंचेंदियतिरि० महालिआ० पं०?, गो०! जहन्नेणं अं० उक्कोसेणं जोयणसहस्सं, जलयरपंचिदियति० पुच्छा, गो०! एवं चेव, संमुच्छिमजलयरपंचिंदियति. पुच्छा, गो० !
-%%%%%%%%%%%%%%%%%%%%%
॥१६॥
%%%
in Education interna
For Private & Personel Use Only