________________
सदेवमनुजासुरायां पर्षदि प्रज्ञप्ता-प्ररूपिता?, अत्र भगवान् गौतममामव्योत्तरमाह-गौतम! द्विविधा-द्विप्रकारा प्रज्ञप्ता, तद्यथा-भवधारणीया चोत्तरवैक्रिया च, ननु शरीरावगाहनायाः प्रमाणे पृष्टे तद्वैविध्यल-14 क्षणभेदकथनमप्रस्तुतमिति चेत्, नैवं, तत्प्रमाणकथनाङ्गत्वात्तस्य, न हि विलक्षणप्रमाणयुक्तेन भेदद्वयन व्यवस्थिताया अवगाहनायास्तद्भेदकथनमन्तरेण प्रतिनियतं किञ्चित्प्रमाणं प्ररूपयितुं शक्यते, भेदोपन्यासे तु प्रतिभेदनियतं तत्कथ्यत इति भावः, तत्र भवे-नारकादिपर्यायभवनलक्षणे आयुःसमाप्तिं यावत्सततं ध्रियते या सा भवधारणीया, सहजशरीरगतेत्यर्थः, या तु तद्हणोत्तरकालं कार्यमाश्रित्य क्रियते सा उत्तरवैक्रिया, तत्र भवधारणीया जघन्यतोऽङ्गुलासख्येयभागमात्रा उत्पद्यमानानां, उत्कृष्टा तु पञ्चधनुःशतमाना सप्तमपृथिव्याम्, उत्तरवैक्रिया त्वाद्यसमयेऽप्यनुलस्य सङ्ख्येयभाग एव भवति, तथाविधप्रयत्नाभावतोऽसङ्ख्येयस्य भागस्य कर्तुमशक्यत्वादिति भावः, उत्कृष्टा तु धनुःसहस्रप्रमाणा सप्तमपृथिव्यामेव, ओघतो नारकाणां शरीरावगाहनामानं प्रतिपाद्य तदेव विशेषतो निरूपयितुमाह-'रयणप्पहा पुढवी' इत्यादि, सूत्रसिद्धमेव, नवरमुत्कृष्टावगाहना सर्वाखपि पृथिवीषु वकीयखकीयचरमप्रस्तटेषु द्रष्टव्या, भवधारणीयायाश्चोत्कृष्टायाः सकाशादुत्तरवैक्रिया सर्वत्र द्विगुणाऽवसेया, तदेवं-नेरइया असुराई पुढवाई बेदियादओ तहय । पंचेंदियतिरियनरा वंतर जोइसिय वेमाणी ॥१॥' इति समयप्रसिद्धचतुर्विशतिदण्डकस्याद्यपदेऽवगाहना
१ नैरयिका असुरादयः पृथिव्यादयः द्वीन्द्रियादयस्तथा च । पञ्चेन्द्रियास्तिर्यश्ची नरा व्यन्तरा ज्योतिष्का वैमानिकाः ॥१॥
in Education Internal
For Private & Personel Use Only
jainelibrary.org