________________
शुष्कोऽचित्तो बहुकोटराकीर्णो वृक्षोऽन्यो वा तथाविधः कश्चित्पदार्थविशेषः सर्पोदेरावासोऽयमिति लौकिकैर्व्यपदिश्यत एव, स च वृक्षादिर्यद्यप्यनन्तैः परमाणुलक्षणैरजीवद्रव्यैर्निष्पन्नस्तथाऽप्येकस्कन्धपरिणतिमा-1 |श्रित्य एकाजीवत्वेन विवक्षित इति वार्थिककप्रत्ययोपादानादेकाजीवस्यावासकनाम सिद्धं, जीवानामपि बहू-| नामावासकनाम दृश्यते यथा-इष्टकापाकाद्यग्निर्मूषिकावास इत्युच्यते, तत्र ह्यग्नौ किल मूषिकाः संमूर्च्छन्ति अतस्तेषामसंख्येयानामग्निजीवानां पूर्ववदावासकं नाम सिद्धम् , अजीवानां तु यथा नीडं पक्षिणामावास इत्युच्यते, तद्धि बहुभिस्तृणाद्यजीवैर्निष्पद्यते इति बहूनामजीवानामावासकनाम भवति, इदानीमुभयस्यावासकसंज्ञा भाव्यते-तत्र गृहदीर्घिकाऽशोकवनिकायुपशोभितः प्रासादादिप्रदेशो राजादेरावास उच्यते, सौधमादिविमानं वा देवानामावासोऽभिधीयते, अत्र च जलवृक्षादयः सचेतनरत्नादयश्च जीवा इष्टकाकाष्ठायोऽचेतनरत्नादयश्चाजीवास्तनिष्पन्नमुभयं, तस्य कप्रत्ययोपादाने आवासकसंज्ञा सिद्धा, उभयानां त्वावासकसंज्ञा यथा संपूर्णनगरादिकं राजादीनामावास उच्यते, संपूर्णः सौधर्मादिकल्पो वा इन्द्रादीनामावासोभिधीयते, अत्र च पूर्वोक्तप्रासादविमानयोलघुत्वादेकमेव जीवाजीवोभयं विवक्षितमत्र तु नगरादीनां सौधर्मादिकल्पानां च महत्त्वाहहूनि जीवाजीवोभयानि विवक्षितानीति विवक्षया भेदो द्रष्टव्यः, एवमन्यत्रापि जीवादीनामावासकसंज्ञा यथासंभवं भावनीया, दिगमात्रप्रदर्शनार्थवादस्य । निगमयन्नाह-से त्तमित्यादि से तमित्यादि वा कचित् पाठः, तदेतन्नामावश्यकमित्यर्थः॥९॥ इदानी स्थापनावश्यकनिरूपणार्थमाह
SAASAASAASAASAASA
उच्यते, संपूर्णः आवासकसंज्ञानादयश्च जीवा
Jnin Education Inter
For Private & Personal use only
Malpolibrary.org