________________
वृत्तिः
अनुयो. मलधारीया
उपक्रमाधिः
॥१२३॥
संयोगा लब्धाः, ततस्तत्परित्यागे औपशमिकस्योपरितनभावत्रयेण सह चारणायां लब्धास्त्रयः, तत्परिहारे साक्षायिकस्योपरितनभावद्वयमीलनायां लब्धौ द्वौ, ततस्तं विमुच्य क्षायोपशमिकस्य पारिणामिकमीलने लब्ध
एक इति सर्वेऽपि दश, एवं सामान्यतो द्विकसंयोगभङ्गकेषु दर्शितेषु विशेषतस्तत्वरूपमजानन् विनेयः पृच्छति-'कयरे से णामे उदइए? इत्यादि, अत्रोत्तरम्-'उदइएत्ति मणुस्से'इत्यादि, औदयिके भावे मनुष्यत्वं-मनुष्यगतिरिति तात्पर्यम्, उपलक्षणमात्रं चेदं, तिर्यगादिगतिजातिशरीरनामादिकर्मणामप्यत्र सम्भवाद, उपशान्तास्तु कषाया औपशमिके भाव इति गम्यते, अत्राप्युदाहरणमात्रमेतत्, दर्शनमोहनीयनोकषायमोहनीययोरप्यौपशमिकत्वसम्भवाद, एतन्निगमयति-'एस णं से णामे उदइएउवसमनिप्फपणे त्ति, |णमिति वाक्यालङ्कारे एतत्तन्नाम यदुद्दिष्टं प्रागौदयिकौपशमिकभावद्वयनिष्पन्नमिति प्रथमद्विकयोगे भङ्गकव्याख्यानम् , अयं च द्विकयोगविवक्षामात्रत एव संपद्यते, न पुनरीदृशो भङ्गः कचिज्जीवे संभवति, तथा हि-यस्यौदायिकी मनुष्यगतिरौपशमिकाः कषाया भवन्ति तस्य क्षायोपशमिकानीन्द्रियाणि पारिणामिक जीवत्वं कस्यचित् क्षायिकं सम्यक्त्वमित्येतदपि संभवति, तत्कथमस्य केवलस्य सम्भवः, एवमेतद्व्याख्यानुसारेण शेषा अपि व्याख्येयाः, केवलं क्षायिकपारिणामिकभावद्वयनिष्पन्नं नवमभङ्गं विहाय परेऽसम्भविनो| द्रष्टव्याः, नवमस्तु सिद्धस्य संभवति, तथाहि-क्षायिके सम्यक्त्वज्ञाने पारिणामिकं तु जीवत्वमित्येतदेव भावद्वयं तस्यास्ति नापरः, तस्मादयमेकः सिद्धस्य संभवति, शेषास्तु नव द्विकयोगाः प्ररूपणामात्रमिति स्थि
॥१२३॥
Jon Education
For Private 3 Personal Use Only
jainelibrary.org