SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ वृत्तिः उपक माधि० अनुयो. बहुवचनं चात्रा तृतीयद्वीपसमुद्रवर्तिचन्द्रार्काणां युगपदुपरागभावात् मन्तव्यमिति चूर्णिकारः, चन्द्रसूर्यपमलधा- रिवेषाः-चन्द्रादित्ययोः परितो वलयाकारपुद्गलपरिणतिरूपाः सुप्रतीता एव, प्रतिचन्द्रः-उत्पातादिसूचको रीया द्वितीयश्चन्द्रः, एवं प्रतिसूर्योऽपि, इन्द्रधनु:-प्रसिद्धमेव, उदकमत्स्यास्तु-इन्द्रधनु:खण्डान्येव, कपिहसितानि अकस्मान्नभसि ज्वलद्भीमशब्दरूपाणि अमोघाः-सूर्यबिम्बादधः कदाचिदुपलभ्यमानशकटोर्द्धिसंस्थितश्यामा॥१२॥ दिरेखाः वर्षाणि-भरतादीनि वर्षधरास्तु-हिमवदादयः पाताला:-पातालकलशाः, शेषास्तु ग्रामादयः प्रसिद्धा एव । अत्राह-ननु वर्षधरादयः शाश्वतत्वात् न कदाचित्तद्भावं मुश्चन्ति तत्कथं सादिपारिणामिकभाववहैर्तित्वं तेषां?, नैतदेवं, तदाकारमात्रतयैव हि तेऽवतिष्ठमानाः शाश्वता उच्यन्ते, पुद्गलास्त्वसङ्ख्येयकालादूर्व न तेष्वेवावतिष्ठन्ते, किं त्वपरापरे तद्भावेन परिणमन्ति, तावत्कालादूर्ध्व पुद्गलानामेकपरिणामेनावस्थितेः प्रागेव निषिद्धत्वादिति सादिपारिणामिकता न विरुध्यते, अनादिपारिणामिके तु धर्मास्तिकायादयः, तेषां तद्रूपतया अनादिकालात् परिणतेः, वाचनान्तराण्यपि सर्वाण्युक्तानुसारतो भावनीयानि । 'से तमित्यादि सानिगमनद्वयम् । उक्तः पारिणामिकः, अथ सान्निपातिकं निर्दिशति से किं तं सण्णिवाइए ?, २ एएसिं चेव उदइअउवसमिअखइअखओवसमिअपारिणामिआणं भावाणं दुगसंजोएणं तियसंजोएणं चउक्कसंजोएणं पंचगसंजोएणं जे ॥१२१॥ Jain Education For Private Personal Use Only Hainelibrary.org
SR No.600060
Book TitleAnuyogadwarasutram Uttarardham
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages546
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy