________________
ASSANSAR
न्तरगमनं न च सर्वथा व्यवस्थानम् । न च सर्वथा विनाशः परिणामस्तद्विदामिष्टः॥१॥” इति, स एव तेन वा निवृत्तः पारिणामिकः, सोऽपि द्विविधः-सादिरनादिश्च, तत्र सादिपारिणामिको 'जुण्णसुरेंत्यादि, जीर्णसुरादीनां जीर्णत्वपरिणामस्य सादित्वात् सादिपारिणामिकता, इह चोभयावस्थयोरप्यनुगतस्य सुराद्रव्यस्य नव्यतानिवृत्तौ जीर्णतारूपेण भवनं परिणाम इत्येवं सुखप्रतिपत्त्यर्थ जीर्णानां सुरादीनां ग्रहणम् , अन्यथा नवेध्वपि तेषु सादिपारिणामिकता अस्त्येव, कारणद्रव्यस्यैव नूतनसुरादिरूपेण परिणतः, अन्यथा कार्यानुत्प-15 त्तिप्रसङ्गाद, अत्र बहु वक्तव्यं तत्तु नोच्यते स्थानान्तरवक्तव्यत्वादस्यार्थस्येति । अभ्राणि सामान्येन प्रतीतान्येव, अभ्रवृक्षास्तु तान्येव वृक्षाकारपरिणतानि, सन्ध्या-कालनीलाद्यभ्रपरिणतिरूपा प्रतीतैव, गन्धर्वनगराण्यपि-सुरसद्मप्रासादोपशोभितनगराकारतया तथाविधनभःपरिणतपुद्गलराशिरूपाणि प्रतीतान्येव, उल्कापाता अपि व्योमसम्मूर्छितज्वलनपतनरूपाः प्रसिद्धा एव, दिग्दाहास्तु-अन्यतरस्यां दिशि छिन्नमूलज्वलनज्वालाकरालिताम्बरप्रतिभासरूपाः प्रतिपत्तव्याः, गर्जितविद्युन्निर्घाताः प्रतीताः, यूपकास्तु-संझाच्छेयावरणो य जूयओ सुक्क दिण तिन्नी ति गाथादलप्रतिपादितस्वरूपा आवश्यकादवसेया, यक्षादीप्तकानि न-13 भोदृश्यमानाग्निपिशाचाः, धूमिका-रुक्षाप्रविरलाधूमाभा प्रतिपत्तव्या, महिकातु लिग्धा घना, लिग्धघनत्वादेव भूमौ पतिता सार्द्रतृणादिदर्शनद्वारेण लक्ष्यते, रजउद्घातो-रजखला दिशः, चन्द्रसूर्योपरागा राहुग्रहणानि,
१ सन्ध्याछेदावरणश्च यूपकः शुक्ले दिनाँस्त्रीन,
सुक्क दिण तिनप्रतिपत्तव्याः, गजितदिन्दाहास्तु-अन्यतरस
अनु. २१
Jain Education Inter
For Private & Personal Use Only