________________
अज्ञानं मत्यज्ञानं, कुत्सितत्वं चेह मिथ्यादर्शनोदयदूषितत्वात् द्रष्टव्यं, दृष्टा च कुत्सार्थे नत्रो वृत्तिः, यथा कुत्सितं शीलमशीलमिलि, मत्यज्ञानस्य लब्धिः-योग्यता, साऽपि वावरणक्षयोपशमेनैव निष्पद्यते, एवं श्रुताज्ञानलब्धिरपि वाच्याः, भङ्गः प्रकारो भेद इत्यर्थः, स चेह प्रक्रमादवधिरेव गृह्यते, विरूपः-कुत्सितो भङ्गो विभङ्गः स एवार्थपरिज्ञानात्मकत्वात् ज्ञानं विभङ्गज्ञानं, मिथ्यादृष्टिदेवादेरवधिर्विभङ्गज्ञानमुच्यते इत्यर्थः, इह च विशब्देनैव कुत्सितार्थप्रतीतेन नञो निर्देशः, तस्य लब्धिः-योग्यता साऽपि वावरणक्षयोपशमेनैव प्राद|रस्ति, एवं मिथ्यात्वादिकर्मणः क्षयोपशमसाध्या शेषा अपि सम्यग्दर्शनादिलब्धयो यथासम्भवं भावनीया, नवरं बाला-अविरताः पण्डिताः-साधवः बालपण्डितास्तु-देशविरताः तेषां यथाखं वीर्यलब्धिीर्यान्तरायकर्मक्षयोपशमाद्भावनीया, इन्द्रियाणि चेह लब्ध्युपयोगरूपाणि भावेन्द्रियाणि गृह्यन्ते, तेषां च लब्धिःयोग्यता मतिश्रुतज्ञानचक्षुरचक्षुर्दर्शनावरणक्षयोपशमजन्यत्वात् क्षायोपशमिकीति भावनीयम् , आचारधरत्वादिपर्यायाणां च श्रुतज्ञानप्रभवत्वात् तस्य च तदावरणकर्मक्षयोपशमसाध्यत्वादाचारधरादिशब्दा इह पठ्यन्ते इति प्रतिपत्तव्यम् । 'से तमित्यादि निगमनद्वयम् ॥ अथ पारिणामिकभावमाश्रित्याह
से किं तं पारिणामिए?, २ दुविहे पण्णत्ते, तंजहा-साइपारिणामिए अ अणाइपारिणामिए अ । से किं तं साइपारिणामिए?, २ अणेगविहे पण्णत्ते तंजहा-जुण्णसुरा
XXARASTASHAHARA
JainEducation
/
For Private Personel Use Only
pww.jainelibrary.org