SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ वृत्तिः अनुयो० मलधा रीया उपक्रमाधि ॥११९॥ चउद्दसपुब्बी खओवसमिए गणी खओवसमिए वायए, से तं खओवसमनिप्फणे, से तं खओवसमिए। असावपि द्विरूप:-क्षयोपशमस्तन्निष्पन्नश्च, तत्र विवक्षितज्ञानादिगुणविघातकस्य कर्मण उदयप्राप्तस्य क्षयः-सर्वथाऽपगमः अनुदीर्णस्य तु तस्यैवोपशमो-विपाकत उदयाभाव इत्यर्थः, ततश्च क्षयोपलक्षित उपशमः क्षयोपशमः, ननु चौपशमिकेऽपि यदुदयप्राप्तं तत्सर्वथाक्षीणं शेषं तु न क्षीणं नाप्युदयप्राप्तमतस्तस्योपशम उच्यत इत्यनयोः कः प्रतिविशेषः, उच्यते, क्षयोपशमावस्थे कर्मणि विपाकत एवोदयो नास्ति, प्रदेशतस्त्वस्त्येव, उपशान्तावस्थायां तुप्रदेशतोऽपि नास्त्युदय इत्येतावताविशेषः। तत्र चतुर्णा घातिकर्मणां केवलज्ञानप्रतिबन्धकानां ज्ञानावरणदर्शनावरणमोहनीयान्तरायाणां यः क्षयोपशम:-क्षयोपशमरूपः स क्षायोपशमिको भावः, णमिति पूर्ववत्, तद्यथेत्यादिना स्वत एव घातिकर्माणि विवृणोति, शेषकर्मणां तु क्षयोपशमो नास्त्येव, निषिद्धत्वात् । 'से तमित्यादि निगमनम् । तेनैव क्षयोपशमेनोक्तखरूपेण निष्पन्नः क्षायोपशमिको भावोऽनेकधा भवति, तमाह-'खाओवसमिया आभिणिबोहियणाणलद्धी'त्यादि, आभिनिबोधिकज्ञानं-मतिज्ञानं तस्य लब्धिः-योग्यता खखावरणकर्मक्षयोपशमसाध्यत्वात् क्षायोपशमिकी, एवं तावद् वक्तव्यं यावन्मनःपर्यायज्ञानलब्धिः, केवलज्ञानलब्धिस्तु वावरणकर्मणः क्षय एवोत्पद्यत इति नेहोक्ता, कुत्सितं ज्ञानमत्रानं मतिरेव *%AANAARAKASKAR ॥११९॥ Jain Education For Private Personal use only elainelibrary.org
SR No.600060
Book TitleAnuyogadwarasutram Uttarardham
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages546
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy