SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ नदी इह नदीह मधु उदकं मधूदकं वधू ऊहः वधूहः, से तं विगारेणं, से तं चउ नामे (सू० १२५) आगच्छतीत्यागमो न्वागमादिस्तेन निष्पन्नं नाम यथा पद्मानीत्यादि, धुट्खराद् घुटि नुः (का० रू. २४) | इत्यनेनात्र न्वागमस्य विधानाद्, उपलक्षणमात्रं चेदं, संस्कार उपस्कार इत्यादेरपि सुडाद्यागमनिष्पन्नत्वादिति, लोपो वर्णापगमरूपस्तेन निष्पन्नं नाम, यथा तेऽत्रेत्यादि, 'एदोत्परः पदान्ते' (लोपमकारः कातअरूपमालायां ११५) इत्यादिना अकारस्येह लुप्तत्वात्, नामत्वं चात्र तेन तेन रूपेण नमनान्नामेति व्युत्पत्तेरस्त्येवेति, इत्थमन्यत्रापि वाच्यम् । उपलक्षणं चेदं-मनस ईषा मनीषा-बुद्धिः भ्रमतीति भूरित्यादेरपि सकारमकारादिवर्णलोपेन निष्पन्नत्वादिति, प्रकृतिः-खभावो वर्णलोपाद्यभावस्तया निष्पन्नं नाम, यथा अग्नी एतावित्यादि, द्विवचनमनावि (का० सू०६.) त्यनेनात्र प्रकृतिभावस्य विधानात्, निदर्शनमात्रं चेदं, सर-18 सिजं कण्ठेकाल इत्यादीनामपि प्रकृतिनिष्पन्नत्वादिति, वर्णस्यान्यथाभावापादनं विकारस्तेन निष्पन्नं दण्डस्याग्रं दण्डाग्रमित्यादि, समानः सवर्णे दीर्धीभवति परश्च लोपम् (का० रू. २४) इत्यादिना दीर्घत्वलक्षणस्य वर्णविकारस्येह कृतत्वाद, उदाहरणमात्रं चैतत्-तस्करः षोडशेत्यादेरपि वर्णविकारसिद्धत्वादिति । तदिह यस्ति तेन सर्वेणापि नाम्ना आगमनिष्पन्नेन वा लोपनिष्पन्नेन वा प्रकृतिनिवृत्तेन वा विकारनिष्पन्नेन वा १ विवक्षयाऽत्रैकपदत्वं, नाम्न एकत्वेन विवक्षणात् वृत्तिकारेणापि निरूढप्राचीनव्याकरणापेक्षया तथा प्रतिपादितं पदत्वमिति, अधुना यथा सोसपर्गस्य । Jain Education HER For Private & Personel Use Only jainelibrary.org
SR No.600060
Book TitleAnuyogadwarasutram Uttarardham
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages546
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy