________________
अनु. १९
Jain Education In
द्विनाम, द्वयोर्वा नाम्नोः समाहारो द्विनाममिति । एतदेव प्रकारान्तरेणाह - ' अहवा दुनामे' इत्यादि, जीवस्य नाम जीवनाम अजीवस्य नाम अजीवनाम्, अत्रापि यदस्ति तेन जीवनाम्नाऽजीवनाम्ना वा भवितव्यमिति जीवाजीवनामभ्यां विवक्षित सर्ववस्तुसङ्ग्रहो भावनीयः, शेषं सुगमं । पुनरेतदेवान्यथा प्राह- 'अहवा दुनामे' इत्यादि, द्रव्यमित्यविशेषनाम जीवे अजीवे च सर्वत्र सद्भावात्, जीवद्रव्यमजीवद्रव्यमिति च विशेषनाम, एकस्य जीव एवान्यस्य त्वजीव एव सद्भावादिति, ततः पुनरुत्तरापेक्षया जीवद्रव्यमित्यविशेषनाम, नारकस्तिर्यङित्यादि तु विशेषनाम, पुनरप्युत्तरापेक्षया नारकादिकमविशेषनाम रत्नप्रभायां भवो रात्नप्रभ इत्यादि तु वि शेषनाम, एवं पूर्व पूर्वमविशेषनाम उत्तरोत्तरं तु विशेषनाम सर्वत्र भावनीयं, शेषं सुगमं, नवरं सम्मूर्च्छन्तितथाविधकर्मोदयाद् गर्भमन्तरेणैवोत्पद्यन्त इति सम्मूर्च्छिमाः, गर्भे व्युत्क्रान्तिः - उत्पत्तिर्येषां ते गर्भव्युत्क्रान्तिकाः, उरसा भुजाभ्यां च परिसर्पन्ति गच्छन्तीति विषधरगोधानकुलादयः सामान्येन परिसर्पाः, विशेषस्तूरसा परिसर्पन्तीत्युरः परिसर्पाः सर्पादय एव, भुजाभ्यां परिसर्पन्तीति भुजपरिसर्पाः - गोधानकुलादय एव, शेषं सुखोन्नेयं । तदेवमुक्ताः सामान्यविशेषनामभ्यां जीवद्रव्यस्य सम्भविनो भेदाः, साम्प्रतं प्रागुद्दिष्टमजीवद्रव्यमपि भेदतस्तथैवोदाहर्तुमाह- 'अविसेसिए अजीवदन्वे' इत्यादि, गतार्थ, तदेवं यदस्ति वस्तु तत्सर्व सामान्यनाम्ना विशेषनाम्ना वा अभिधीयते, एवमन्यत्रापि द्विनामत्वं भावनीयं, 'से तं दुनामेति निगमनम् ॥ १२३ ॥
For Private & Personal Use Only
ainelibrary.org