________________
चेव एगाइआए एगुत्तरिआए दसगच्छगयाए सेढीए अन्नमन्नब्भासो दुरूवूणो, से तं
अणाणुपुव्वी, से तं सामायारीआणुपुव्बी (सू० ११९) तत्र समाचरणं समाचारः-शिष्टजनाचरितः क्रियाकलापस्तस्य भाव इति (उपमाने वतिः ५०९ तत्त्वौ8 है भावे ५१० यण् च ५११ इति का० रू०) यण्प्रत्यये स्त्रियामीकारे च सामाचारी, सा च त्रिविधा-ओघनियु
क्त्यभिहितार्थरूपा ओघसामाचारी १, इच्छामिच्छाद्यर्थविषया दशधा सामाचारी २, निशीथकल्पाद्यभि| हितप्रायश्चित्तपदविभागविषया पविभागसामाचारी ३, उक्तं च-"सामायारी तिविहा ओहे दसहा पयविभागे'त्ति, तत्रेह दशधा सामाचारीमाश्रित्योक्तम्-'इच्छामिच्छातहकारों'इत्यादि, अत्र कारशब्दः प्रत्येकमभिसम्बध्यते,ततश्चैषणमिच्छा-विवक्षितक्रियाप्रवृत्त्यभ्युपगमस्तया करणमिच्छाकारः, आज्ञाबलाभियोगरहितो व्यापार इत्यर्थः १, मिथ्या-असदेतद् यन्मयाऽऽचरितमित्येवं करणं मिथ्याकारः, अकृत्ये कस्मिंश्चित् कृते मिथ्यावितथमिदं न पुनर्यथा भगवद्भिरुक्तं तथैवैतन्मच्चेष्टितमतो दुष्कृतं-दुराचीर्णम् इत्येवमसक्रियानिवृत्त्यभ्युपगमो मिथ्याकार इति तात्पर्यम् २, सूत्रव्याख्यानादौ प्रस्तुते गुरुभिः कस्मिंश्चिद् वचस्युदीरिते सति यथा भवन्तः प्रतिपादयन्ति तथैवैतदित्येवंकरणं तथाकारः, अविकल्पगुर्वाज्ञाभ्युपगम इत्यर्थः ३, अवश्यकर्तव्यमावश्यकं तत्र भवा आवश्यकी-ज्ञानाद्यालम्बनेनोपाश्रयात् बहिरवश्यंगमने समुपस्थिते अवश्यकर्त
१ सामाचारी त्रिविधा ओघे दशधा पदबिभागे इति.
अनु. १८
Jain Education
For Private
Personal Use Only