________________
चेह प्राधाद्विशिष्टरमाणवाय परमानदेशादि देवावक्ता इति
शेष आनुपूर्वीति, आह-ननु यदि द्रव्यविशेष एवात्राप्यानुपूर्वी कथं तर्हि तस्य कालानुपूर्वीत्व, नै अभिप्रायापरिज्ञानाद, यतः समयत्रयलक्षणकालपर्यायविशिष्टमेव द्रव्यं गृहीतं, ततश्च पर्यायपर्यायिणोः कथञ्चिदभेदात् कालपर्यायस्य चेह प्राधान्येन विवक्षितत्वाद् द्रव्यस्यापि विशिष्टस्य कालानुपूर्वीत्वं न दुष्यति, मुख्यं समयत्रयस्यैवात्रानुपूर्वीत्वं, किन्तु तद्विशिष्टद्रव्यस्यापि तदभेदोपचारात्तदुक्त इति भावः, एवं चतुःसमयस्थित्यादिष्वपि वाच्यं, यावद्दश समयाः स्थितिर्यस्य परमाण्वादिद्रव्यसङ्घातस्य स तथा, सङ्ख्येयाः समयाः स्थितिर्यस्य परमाण्वादेः स तथा, असख्येयाः समयाः स्थितिर्यस्य परमाण्वादेः स तथा, अनन्तास्तु समया द्रव्यस्य स्थितिरेव न भवति, स्वाभाव्याद, इत्युक्तमेवेति, शेषा बहुवचननिर्देशादिभावना पूर्ववदेव, एकसमयस्थितिक परमाण्वाद्यनन्ताणुकस्कन्धपर्यन्तं द्रव्यमनानुपूर्वी, द्विसमयस्थितिकं तु तदेवावक्तव्यकमिति, शेषं पूर्वोक्तानुसारेण सर्व भावनीयं, यावद द्रव्यप्रमाणद्वारे 'नो संखेन्जाइं असंखेन्जाइं नो अणंताई इति, अस्य भावना-इह व्यादिसमयस्थितिकानि परमाण्वादिद्रव्याणि लोके यद्यपि प्रत्येकमनन्तानि प्राप्यन्ते तथापि समयत्रयलक्षणायाः स्थितेरेकखरूपत्वात् कालस्य चेह प्राधान्येन द्रव्यबहुत्वस्य गुणीभूतत्वात् त्रिसमयस्थितिकैरनन्तैरप्येकमेवानुपूर्वीद्रव्यम् , एवं चतुःसमयलक्षणायाः स्थितेरेकत्वादनन्तैरपि चतुःसमयस्थितिकद्रव्यरेकमेवानुपूर्वीद्रव्यम्, एवं समयवृद्ध्या तावन्नेयं यावदसङ्ख्ययसमयलक्षणायाः स्थितेरेकत्वादनन्तैरप्यसङ्ख्ययसमयस्थितिकैव्यैरेकमेवानुपूर्वीद्रव्यमिति, एवमसख्येयान्येवात्रानुपूर्वीद्रव्याणि भवन्ति, एक
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org