________________
Jain Education I
कप्रदेशरूपे द्विद्विप्रदेशरूपे च क्षेत्रेऽवगाढानां प्रत्येकमसयेयानां द्रव्यभेदानां सद्भावतस्तयोरपिं प्रत्येकमसङ्घयेय भेदयोलोंके सद्भावाद्, द्रव्यावगाहभेदेन च क्षेत्रभेदस्येह विवक्षितत्वादिति भावः, वृद्धबहुमतश्चायमपि पक्षो लक्ष्यते, तत्त्वं तु केवलिनो विदन्ति । क्षेत्रस्पर्शनयोस्तु विशेषः प्राग् निदर्शित एवेति, गतं स्पर्शनाद्वारम् अथ कालद्वारं
गमववहाराणं आणुपुव्वीदव्वाइं कालओ केवश्चिरं होइ ?, एवं तिष्णिवि, एग दव्वं पच्च जहन्नेणं एगं समयं उक्कोसेणं असंखिज्जं कालं, नाणादव्वाई पडुच्च णि
यमा सव्वद्धा ॥
तत्र क्षेत्रावगाह पर्यायस्य प्राधान्यविवक्षया त्र्यादिप्रदेशावगाढद्रव्याणामेवानुपूर्व्यादिभावः पूर्वमुक्तः, अतस्तेषामेवावगाहस्थितिकालं चिन्तयन्नाह - 'एगं दव्वं पडुच्चे त्यादि, अत्र भावना - इह द्विप्रदेशावगाढस्य वा एकप्रदेशावगाढस्य वा द्रव्यस्य परिणामवैचित्र्यात् प्रदेशत्रयाद्यवगाहभवने आनुपूर्वीव्यपदेशः सञ्जातः, समयं चैकं तद्भावमनुभूय पुनस्तथैव द्विप्रदेशावगाढमेकप्रदेशावगाढं वा तद्रव्यं संजातमित्यानुपूर्व्याः समयो जघन्यावगाहस्थितिः, यदा तु तदेव द्रव्यमसंख्येयं कालं तद्भावमनुभूय पुनस्तथैव द्विप्रदेशावगाढमेकप्रदेशावगाढं वा जायते तदा उत्कृष्टतया असङ्ख्येयोऽवगाहस्थितिकालः सिद्ध्यति, अनन्तस्तु न भवति, विवक्षिते
For Private & Personal Use Only
ainelibrary.org