SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ Astro एवमन्यदपि कारणमभ्यूह्यमित्यलं विस्तरेण । एवं चतुष्प्रदेशावगाढादिष्वपि भावना कार्या, यावदसङ्ख्यातप्रदेशावगाढा आनुपूर्वीति, असङ्ख्यातप्रदेशेषु चावगाढोऽसङ्ख्याताणुकोऽनन्ताणुको वा द्रव्यस्कन्धो मन्तव्यो, | यतः पुद्गलद्रव्याणामवगाहमित्थं जगद्गुरवः प्रतिपादयन्ति-परमाणुराकाशस्यैकस्मिन्नेव प्रदेशेऽवगाहते, द्विप्रदेशिकायोऽसङ्ख्यातप्रदेशिकान्तास्तु स्कन्धाः प्रत्येकं जघन्यत एकस्मिन्नाकाशप्रदेशेऽवगाहन्ते, उत्कृष्टतस्तु यत्र स्कन्धे यावन्तः परमाणवो भवन्ति स तावत्खेव नभःप्रदेशेष्ववगाहते, अनन्ताणुकस्कन्धस्तु जघन्यतस्तथैव उत्कृष्टतस्त्वसङ्ख्ययेष्वेव नभ प्रदेशेष्ववगाहते, नानन्तेषु, लोकाकाशस्यैवासङ्खयेयप्रदेशत्वात्, अलोकाकाशे च द्रव्यस्थावगाहाभावादित्यलं प्रसङ्गेन, प्रकृतमुच्यते । तत्रानुपूर्वीप्रतिपक्षत्वादनानुपूर्व्यादिवरूप-13 माह-'एगपएसोगाढे अणाणुपुव्वि'त्ति, एकस्मिन्नभाप्रदेशे अवगाढः-स्थित एकप्रदेशावगाढः परमाणुसवातः स्कन्धसङ्घातश्च क्षेत्रतोऽनानुपूर्वीति मन्तव्यः, 'दुप्पएसोगाढे अवत्तव्वए'त्ति, प्रदेशद्वयेऽवगाढो द्विप्रदेशिकादिस्कन्धः क्षेत्रतोऽवक्तव्यकं, शेषो बहुवचननिर्देशादिको ग्रन्थो यथाऽधस्ताद् द्रव्यानुपूया व्याख्यातस्तथेहापि तदुक्तानुसारतो व्याख्येयो, यावद् द्रव्यप्रमाणद्वारे 'णेगमववहाराणं आणुपुव्वीवाई किं संखेजाई' इत्यादि प्रश्नः, अनोत्तरम्-'नो संखेज्जाइ'मित्यादि, त्र्यादिप्रदेशविभागावगाढानि द्रव्याणि क्षेत्रत आनुपूर्वीत्वेन निर्दिष्टानि, व्यादिप्रदेशविभागाश्चासङ्ख्यातप्रदेशात्मके लोकेऽसङ्ख्याता भवन्ति, अतो द्रव्यतया बहूनामपि क्षेत्रावगाहमपेक्ष्य तुल्यप्रदेशावगाढानामेकत्वात् क्षेत्रानुपूर्व्यामसङ्ख्यातान्येवानुपूर्वीद्रव्याणि Jain Education C onal For Private & Personel Use Only m/jainelibrary.org
SR No.600060
Book TitleAnuyogadwarasutram Uttarardham
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages546
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy