________________
अनुयो मलधारीया
वृत्तिः अनुयो० अधि०
स्सवि उद्देसो जाव पवत्तइ ?, इमं पुण पट्टवणं पडुच्च अणंगपविट्ठस्स अणुओगो
(सू०३-१०४०) अत्र यथाभिहितमुपजीव्याह शिष्यो-'यदी'त्यादि, याक्तक्रमेण श्रुतज्ञानस्योद्देशः समुद्देशोऽनुज्ञा अनुयोगश्च प्रवर्तते, तर्हि किमसावङ्गप्रविष्टस्य प्रवर्तते, उताङ्गबाह्यस्येति ?, तत्राङ्गेषु प्रविष्टम्-अन्तर्गतमङ्गप्रविष्टं, श्रुतम्-आचारादि तबाह्यं तु उत्तराध्ययनादि, अत्र गुरुर्निर्वचनमाह-'अंगपविट्ठस्सवी'त्यादि, अपिशब्दो परस्परसमुच्चयार्थों, अङ्गप्रविष्टस्याप्युद्देशादि प्रवर्तते, अङ्गाद्वाह्यस्यापि, 'इदं पुनः' प्रस्तुतं 'प्रस्थापन प्रारम्भं, 'प्रतीत्य आश्रित्याङ्गबाह्यस्य प्रवर्तते नेतरस्य, आवश्यकं ह्यत्र व्याख्यास्यते, तच्चाङ्गबाह्यमेवेतिभावः ॥३॥
जइ अणंगपविटुस्स अणुओगो, किं कालिअस्स अणुओगो ? उक्कालिअस्स अणुओगो?, कालिअस्सवि अणुओगो उक्कालिअस्सवि अणुओगो, इमं पुण पटवणं पडुच्च
उक्कालिअस्स अणुओगो (सू० ४-५० २०) अत्राङ्गबाह्यस्येति सामान्योक्तौ सत्यां संशयानो विनेय आह-'जह अंगबाहिरस्से'त्यादि, यद्यङ्गबाह्यस्योद्देशादिः किमसौ कालिकस्य प्रवर्तते उत्कालिकस्य वा?, द्विधाऽप्यङ्गबाह्यस्य संभवादितिभावः, तत्र दिवसनिशाप्रथमचरमपौरुषीलक्षणे कालेऽधीयते नान्यत्रेति कालिकम्-उत्तराध्ययनादि, यत्तु कालवेलामात्रवर्ज
M
Jan Education
For Private
Personel Use Only
Urjainelibrary.org