SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ अनुयो० मलधारीया वृत्तिः उपक्रमाधि० ॥६२॥ सम्बन्ध इत्य तु षड्दिकैः प्रदेशैस्तद्वहिरपि भवति, तथा च परमाणुद्रव्यमाश्रित्य तावद्वगाहनास्पर्शनयोरन्यत्रोक्तो भेदः'एगपएसोगाढं सत्तपएसा य से फुसण'त्ति, अस्यार्थ:-परमाणुद्रव्यमवगाढं तावदेकस्मिन्नेवाकाशप्रदेश, स्पर्शना तु 'सें तस्य सप्त प्रदेशा भवन्ति, षड्दिग्व्यवस्थितान् षट् प्रदेशान् यत्र चावगाहस्तं च स्पृशतीत्यर्थः, एवमन्यत्रापि क्षेत्रस्पर्शनयोर्भेदो भावनीयः। अत्र सौगताः प्रेरयन्ति-यदि परमाणोः षड्दिक्स्पर्शनाऽभ्युप-13 गम्यते तयेकत्वमस्य हीयते, तथाहि-प्रष्टव्यमत्र, किं येनैव स्वरूपेणासौ पूर्वाद्यन्यतरदिशा सम्बद्धस्तेनैवान्यदिग्भिरुत स्वरूपान्तरेण ?, यदि तेनैव तदा अयं पूर्वदिकसम्बन्धोऽयं चापरदिक्सम्बन्ध इत्यादिविभागो न स्यादु, एकखरूपत्वात्, विभागाभावे च षदिक्सम्बन्धवचनमुपप्लवत एव, अथापरो विकल्पः कल्प्यते तर्हि तस्य षट्स्वरूपापत्त्या एकत्वं विशीर्यते, उक्तं च-"दिग्भागभेदो यस्यास्ति, तस्यैकत्वं न युज्यत" इति, अत्र प्रतिविधीयते, इह परमाणुद्रव्यमादिमध्यान्त्यादिविभागरहितं निरंशमेकखरूपमिष्यते, अतः सांशवस्तुसम्भवित्वात् परोक्तं विकल्पद्वयं निरास्पदमेव, अथानभ्युपगम्यमानाऽपि परमाणोः सांशताऽनन्तरोक्तविकल्पबलेनापाद्यते, ननु भवन्तोऽपि तर्हि प्रष्टव्याः कचिद् विज्ञानसन्ताने विवक्षितः कश्चिद्विज्ञानलक्षणक्षणः खजनकपूर्वक्षणस्य कार्य स्वजन्योत्तरक्षणस्य कारणमित्यत्र सौगतानां तावदविप्रतिपत्तिः, तत्रेहापि (तत्रापि) विचार्यते-किमसौ येन खरूपेण पूर्वक्षणस्य कार्य तेनैवोत्तरक्षणस्य कारणमुत खरूपान्तरेण ?, यद्यायः पक्षस्तर्हि यथा पूर्वापेक्षयाऽसौ कार्य तथोत्तरापेक्षयापि स्यादु, यथा वा उत्तरापेक्षया कारणं तथा पूर्वापेक्षयाऽपि वचनमुपप्लवत वशीयते, उक्तं in Education Internal For Private Personal Use Only www.jainelibrary.org
SR No.600060
Book TitleAnuyogadwarasutram Uttarardham
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages546
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy