________________
मनन्तव्यक्तिख्यापनार्थो नैगमव्यवहारयोरित्थंभूताभ्युपगमप्रदर्शनार्थश्च बहुत्वनिर्देश इत्यदोषः । अत्राऽऽहनन्वनानुपूर्वीद्रव्यमेकेन परमाणुना निष्पद्यते, अवक्तव्यकद्रव्यं परमाणुयेन, आनुपूर्वीद्रव्यं तु जघन्यतोऽपि परमाणुनयेणेति, इत्थं द्रव्यवृद्ध्या पूर्वानुपूर्वीक्रममाश्रित्य प्रथममनानुपूर्वी ततोऽवक्तव्यकं ततश्चाऽऽनुपूर्वीत्येवं निर्देशो युज्यते, पश्चानुपूर्वीक्रमाश्रयेण तु व्यत्ययेन युक्तः, तत् कथं क्रमद्वयमुल्लध्यान्यथा निर्देशः कृतः?, सत्यमेतत्, किन्त्वनानुपूर्व्यपि व्याख्यानमिति ख्यापनार्थः, यदिवा त्र्यणुकचतुरणुकादीन्यानुपूर्वीद्रव्याण्यनानुपूर्व्यवक्तव्यकद्रव्येभ्यो बहूनि तेभ्योऽनानुपूर्वीद्रव्याण्यल्पानि तेभ्योऽप्यवक्तव्यकद्रव्याण्यल्पतराणीत्यत्रैव वलक्ष्यते, ततश्चेत्थं द्रव्यहान्या पूर्वानुपूर्वीक्रमनिर्देश एवायमित्यलं विस्तरेण । 'से तमित्यादि निगमनम् ॥ ७॥
एआए णं नेगमववहाराणं अटुपयपरूवणयाए किं पओअणं?, एआए णं नेगमवव_ हाराणं अट्ठपयपरूवणयाए भंगसमुकित्तणया कज्जइ (सू०७५) • 'एआए णमित्यादि, 'एतया'अर्थपदप्ररूपणतया किं प्रयोजनमिति, अत्राऽऽह-एतया' अर्थपदप्ररूपणतया : भङ्गसमुत्कीर्तना क्रियते, इदमुक्तं भवति-अर्थपदप्ररूपणतायां संज्ञासंज्ञिव्यवहारो निरूपितस्तस्मिंश्च सत्येवं भङ्गकाः समुत्कीर्तयितुं शक्यन्ते, नान्यथा, संज्ञामन्तरेण निर्विषयाणां भङ्गानां प्ररूपयितुमशक्यत्वात्, तस्माद् युक्तमुक्तम्-एतया-अर्थपदप्ररूपणतया भङ्गसमुत्कीर्तना क्रियत इति ॥ ७५ ॥ तामेव भङ्गसमुत्कीर्तनां निरूपयितुमाह
अनु. १०
Jain Education inteAI
For Private & Personel Use Only
H
ainelibrary.org