________________
अनुयो०
मलधारीया
वृत्तिः उपक्रमाधि०
॥ ५४॥
न्यत्र, एतच्च त्रिप्रदेशिकादिस्कन्धेष्वेव, तथाहि-यस्मात् परमस्ति न पूर्व स आदिः, यस्मात् पूर्वमस्ति न परं
सोऽन्तः, तयोश्चान्तरं मध्यमुच्यते, अयं च संपूर्णो गणनानुक्रमस्त्रिप्रदेशादिस्कन्ध एव, न परमाणी, तस्यै& कद्रव्यत्वेनादिमध्यान्तव्यवहाराभावाद्, अत एवायमनानुपूर्वीत्वेनोक्तो, नापि द्यणुकस्कन्धः, तत्रापि मध्याभावेन सम्पूर्णगणनानुक्रमाभावाद्, अत्राऽऽह-ननु-पूर्वस्यानु पश्चादनुपूर्व तस्य भाव आनुपूर्वीति पूर्व व्याख्यातम्, एतच व्यणुकस्कन्धेऽपि घटत एव, परमाणुद्वयस्यापि परस्परापेक्षया पूर्वपश्चाद्भावस्य विद्यमानत्वात्, ततः सम्पूर्णगणनानुक्रमाभावेऽपि कस्मादयमप्यानुपूर्वी न भवति ?, नैतदेवं, यतो यथा मेदिके कचित् पदार्थे मध्येऽवधौ व्यवस्थापिते लोके पूर्वादिविभागः प्रसिद्धस्तथा यद्यत्रापि स्यात्तदा स्यादप्येवं, न चैवमत्रास्ति, मध्येऽवधिभूतस्य कस्यचिद्भावतोऽसाङ्कर्येण पूर्वपश्चाद्भावस्यासिद्धत्वात्, यद्येवं परमाणुवद द्यणुकस्कन्धोऽप्यनानुपूर्वीत्वेन कस्मानोच्यते ?, सत्यं, किन्तु परस्परापेक्षया पूर्वपश्चाद्भावमात्रस्य सद्भावादेवमप्यभिधातुमशक्योऽसौ, तस्मादानुपूय॑नानुपूर्वीप्रकाराभ्यां वक्तुमशक्यत्वाद्वक्तव्यकमेव व्यणुकस्कन्धः, तस्माद्व्यवस्थितमिदम्-आदिमध्यान्तभावेनावधिभूतं मध्यवर्तिनमपेक्ष्यासाङ्कर्येण मुख्यस्य पूर्वपश्चाद्भावस्य सद्भावात् त्रिप्रदेशादिस्कन्ध एवाऽऽनुपूर्वी, परमाणुस्तूक्तयुक्त्याऽनानुपूर्वी, व्यणुकोऽवक्तव्यकः, इत्येवं संज्ञासंज्ञिसम्बन्धकथनरूपा अर्थपदप्ररूपणा कृता भवति । यद्येवं त्रिप्रदेशिका आनुपूर्व्य इत्यादिबहुवचननिर्देशः किमर्थः ?, एकत्वमात्रेणैव संज्ञासंज्ञिसम्बन्धकथनस्य सिद्धत्वात्, सत्यं, किन्त्वानुपूर्व्यादिवब्याणां प्रतिभेद-15
Jain Education
For Private Personal use only
Frijainelibrary.org