SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ Dowwww XOXOXOXOXOXOXOXOXXX श्रीअध्यात्मकल्पद्रुमस्योपोद्घातः उपादेयोऽयमुमाकर्णिभिरध्यात्मकल्पद्रुमाख्यो ग्रन्थः । ग्रन्थस्यास्य न केवलैवाभिधा मनोहरा, किन्तु ग्रन्थस्यास्य सर्वखं ममतामोचनाद्युपदेशमयत्वात् अध्यात्ममयमेव । अध्यात्मं हि शास्त्रकारा आत्मानमधिकृत्य पञ्चाचारचारिमाणं वर्णयन्ति, पश्चाचारचारिमा च अनेकैः पूज्यप्रवरैः शास्त्रकारैः स्थाने स्थाने फलदर्शनद्वारेण वर्णितोऽस्ति, परं क्रियमाणायां प्रवृत्ती ये तादात्विका दोषा उपस्थानमायान्ति तेषां शमनेन अध्यात्मपोषणं यथा प्रस्तुतग्रन्थकृद्भिः प्रथनेनोपदिष्टं न तथा अद्यावधि विरचितेषु प्रकटीकृतेषु च ग्रन्थेषु कचनापि दरीदृश्यते, अत एव च यतः फलज्ञापनद्वारा कारयिष्यमाणायाः प्रवृत्तेः विघ्नविद्रावणद्वारा कारयिष्यमाणायाः प्रवृत्तेर्गरीयस्त्वं आमनन्त्याम्नायविद् इति गरीयस्त्वं प्रस्तुतग्रन्थस्य । विवेचका यदि निपुणदृष्ट्या विवेचयिष्यन्ति तर्हि ज्ञास्यन्ते एव अस्य ग्रन्थस्य तात्पर्य यतिशिक्षारूपं, यद्यपि यतिशिक्षाऽधिकारोऽत्र त्रयोदशसंख्यस्तथाऽपि अन्येषु पञ्चदशस्खधिकारेषु पद्यसंख्या न तावती यावती अत्र, यतः सप्तपञ्चाशद्वृत्तान्यत्राधिकारे, किंच-नान्यत्र काप्यधिकारे मंगलाधिकारादिनिर्देशः, अत्र तु ते तीर्णा० इत्यादिना स्पष्ट एव नमस्काराद्यधिकारः। किञ्च-इममित्यादि (२७८) ग्रन्थोऽस्यैव अन्त्यभागः स्यात् येन शान्तरस० इत्याद्युपसंहारस्य न पुनरुक्तता स्यात् , किञ्च-यतिशिक्षाया हितोपदेशमय्या अपि केषाञ्चिद् विदुषां कटुकत्वेन भानं स्यात् , परं ज्वरापहार्योषधमिव न तत् कटुकत्वं दोषावह, परिणामसुखस्य प्राज्ञैः पर्येष्यमाणत्वाद्, यदि च कैश्चित् | ग्रन्थप्रसारपटुभिः विज्ञप्तं स्यात् तस्याः कटुकत्वसंवरणाय ततः शेषैः पश्चदशभिरधिकारैः पश्चादपि संवलितः स्यादयं प्रन्थः । मोक्षमार्गमभिलाषुकैरवश्यमयं ग्रन्थः समग्रोऽपि अध्येयः ध्येयश्च यथावत् , विशेषेणैदंयुगीनैः प्रमत्तताबहुलैः, नैषाऽऽशीर्वाग् व्यर्था, यद् अमादपङ्कमपास्यानेन सुविहिताः समाचरिष्यन्ति भगवदर्हदुपदिष्टं यथार्थ मोक्षमार्ग । कारश्चास्य ग्रन्थस्य युगप्रधाना श्रीमन्मुनिसुन्दरसूरयः,
SR No.600059
Book TitleAdhyatma Kalpadrum
Original Sutra AuthorN/A
AuthorMunisundarsuri, Ratnachandra Maharaj
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages324
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy