SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ 0000000000000000000 भयसण्णाए मेहुणसन्नाए परिग्गहसन्नाएत्ति' न च कृत्यकरणेऽतिचारो नाम नवाऽकृत्यविधानमपि।न च रागादिवदशस्तैवाहारसंज्ञातिचारो न तु प्रशस्तेति वाच्यं, तस्या द्वैविध्याव्यवस्थानादाहारसंज्ञात्वावच्छेदेनोक्तकारणजन्यत्वानुपपत्तेश्च । किंचेयमाहारसंज्ञाहारमात्रं प्रति हेतुः कवलाहारमात्रं प्रति वा ? नाद्यस्ता विनापि लोमाहारादिश्रवणान्न द्वितीयो लोमाहारस्येव कवलाहारस्यापि तां विनैव संभवात्तस्यास्तदहेतुत्वात् ॥८२॥ एतेनेदं परास्तमित्याह| एयं विणा ण भुत्ती मेहणसण्णं विणा जह अबंभं । इय वयणंपि परेसिं एएण पराकयं णेयं ॥ ८३ ॥ एतां विना न भुक्तिमैथुनसंज्ञां विना यथाऽब्रह्म । इति वचनमपि परेषां एतेन पराकृतं ज्ञेयम् ॥ ८३ ॥ प्रशस्ताभिलाषेनाहारसंज्ञां विनापि यतीनामाहारोपदर्शनादाहारस्याहारसंज्ञाव्यतिरेकप्रयुक्तव्यतिरेकशालित्वाभावादेव मैथुनसंज्ञां विना स्त्रीपुंससंयोग इवाहारसंज्ञां विना केवलिनां तदनुपपत्तिरिति वचोऽपि निरस्तमावेदितव्यम् | दृष्टान्तवैषम्याद् ॥८३॥ एतदेव व्यनक्तिण हु सा उचियपवित्तीणेव य सुपसत्थझाणहेउत्ति । आहारोव अभं अण्णह तुह होइ णिद्दोसं॥८४ ॥ न हि सा उचितप्रवृत्तिनैव च सुप्रशस्तध्यानहेतुरिति । आहार इवाब्रह्म अन्यथा तव भवति निर्दोषम् ॥ ८४॥ का केवलिनां हि कैवल्यस्वाभाव्यादेवोचिता प्रवृत्तिर्भवति, न चाब्रह्मप्रवृत्तिरुचिता बाह्यानामपि गहणीयत्वात् । तथा| |चाहार इवाब्रह्मणि प्रवृत्तिन समाना, न चाहारस्येवाब्रह्मणः प्रशस्तध्यानालम्बनत्वम् प्रत्युत दुयोननिबन्धनत्वमेवेत्यनयोर्महदन्तरमेव । तथा च परेषामपि न तत्र प्रवृत्तिरुचिता। न च तन्निबन्धनकर्मसत्त्व एव तदौचित्यं नामैवं सति 00000000000000000000000 in Educon For Private Personel Use Only Mainelibrary.org
SR No.600058
Book TitleAdhyatmamatpariksha Swopagnyavruttyupeta
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages240
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy