SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ अध्यात्म ॥४३॥ 00000000000000000000 ___आहारसंज्ञा ह्याहाराभिलाषः क्षुद्वेदनीयोदयप्रभवः खल्वात्मपरिणाम इत्युक्तमावश्यकवृत्त्यादौ । अयं च शरीरानुरा परीक्षावृ० गार्थिताद्यौपाधिकतया यद्यपि मोहाभिव्यक्तस्तदुक्तम् 'संज्ञानं संज्ञा मोहाभिव्यक्तं चैतन्यमिति' तथापि क्षुद्वेदनीयोदयासाधारणहेतुकतया तथोक्तः। सचावमकोष्ठताक्षुद्वेदनीयोदयमतितदर्थोपयोगैश्चतुर्भिः समुदितैर्हेतुभिरुपजायते । तथा| च पारमाणे “चरहिं ठाणेहिं आहारसण्णा समुप्पज्जइ उमकोठयाए छहावेदणिजस्स णं कम्मस्स उदए णं मतीए तदट्ठो-14 वओगेणंति । तत्र मतिराहारश्रवणादिभ्यो भवति । तदर्थोपयोगस्वाहारमेवानवरतं चिन्तयत इति व्याख्यातम् ।। सेयमाहारसंज्ञा स्वकारणप्रकर्षादवाप्तप्रकर्षा तृष्णेति भण्यते । सा च निरन्तरोपसर्पदिष्टविषयसंयोगाभिलाषसन्ततिरू-1 | पातेध्यानमयत्वमास्कन्दन्ती प्रकृष्टदुःखाङ्करस्य बीजभूता भवति ॥८॥नचेयं क्षुद्वेदनीयोदयजन्यत्वात् क्षुदेव, तदुत्त-| काराभिलाषरूपत्वात्तस्याः, अत एव तां विनैव महर्षीणां भोजनादौ प्रवृत्तिरित्यनुशास्तिअसणाइम्मि पवित्ति एत्तो च्चिय तं विणा सुसाहणं। ण जहत्तविहिविहाणे अइआरोहंदि णिदिठो॥८॥ अशनादौ प्रवृत्तिरत एव तां विनैव सुसाधूनाम् । न यथोक्तविधिविधानेऽतिचारो हन्दि निर्दिष्टः ।। ८२॥ | यतो हि मोहाभिनिवेशान्निरन्तराहारचिन्तनां विनवाहारसंज्ञोपजायतेऽतो निर्मोहानां यात्रामात्रार्थमेव कदाचिदप्रतिकुष्टपिण्डग्रहणमभिलषतां तां विनैव महर्षीणां भोजनादौ प्रवृत्तिरथाहारसंज्ञाहारहेतुरिति न तां विना महर्षीणामपि तत्र प्रवृत्तिरितिचेत्तर्हि प्रवचनोक्तकारणेनापि भोजनादि कुर्वतां यतीनामाहारसंज्ञयातिचारप्रसङ्गः। संज्ञानां चतसृणामलाप्यतिचाररूपत्वादत एव ताभिहेतुभूताभिरतिचारप्रतिक्रमणमुपदिशन्ति 'पडिक्कमामि चउहिं सण्णाहिं आहारसण्णाए 0000000000000000000 Jain Education in For Private & Personel Use Only Smainelibrary.org dr.
SR No.600058
Book TitleAdhyatmamatpariksha Swopagnyavruttyupeta
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages240
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy