SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ 000000000000000000000000 त्तयोवलनोपतापहेतुर्मोहनीयं कर्म तु न कुत्राप्युपयुज्यत इति कथं तद्विरहात् क्षुत्तृष्णादिविरहः केवलिनामिति शङ्कतेनणु छहतण्हा तण्हामोहुदउप्पत्तिआ रिरंसव । भण्णइ अण्णा तण्हा अण्णं दुःखं तयट्ठति ॥८॥la ननु क्षुधातृष्णा तृष्णामोहोदयोत्पत्तिका रिरंसेव । भण्यतेऽन्या तृष्णा अन्यदुःखं तदर्थमिति ।। ८०॥ | नन्वशनीयोदन्ये अपि वृषस्येव तृष्णाव्यक्तिरूपतया मोहोदयजन्ये ते एव च क्षुत्तृष्णापदाभिधेये इति कथं न तयो-101 शस्तजन्यत्वमिति चेन्न । पौर्वापर्यभावेन बुभुक्षापिपासाभ्यां क्षुत्तष्णयोर्भिन्नत्वात्तथाहि पूर्व तथाविधाऽसातवेदनीयोदय वशात् क्षुत्तष्णाभ्यां बाध्यते जन्तुस्ततस्तन्निवृत्त्युपाययोरशनपानयोस्तथात्वं प्रमिणोति तृप्त्यादिसाधनतयेष्टसाधनत्वं वा, ततो बुभुक्षति पिपासति वा, ततश्च तत्र प्रवर्तत इति । तत्र च तदुपायमैत्रीप्रवृत्तहेतुकतृष्णाया मोहजन्यत्वेऽपि क्षत्तष्णयोस्तजन्यत्वे न किञ्चित्प्रमाणं पश्यामः। अथ मोहनिरोधेनैव तपस्विनां तन्निरोधदर्शनात्तयोस्तजन्यत्वमवसीयत इति चेन्न । तेषां सर्वथा तन्निरोधासिद्धेः, प्रतिपक्षभावनया बुभुक्षापिपासानिरोधेनैव तदभिभवादन्यथा शरीरकार्यादितत्कार्यविलोपप्रसङ्गादथ समानेष्यसातवेदनीयोदये मूढामूढानां दुःखप्रकर्षापकर्षदर्शनात् मोहकार्यत्वं दुःखस्येतिचेत्सत्यं । तथापि तृष्णातिरेकद्वारा प्रकृष्टदुःखं प्रत्येवारतिमोहोदयादेहेतुत्वादन्यथा समानवैराग्याणामप्यसातवेदनीयोदयवैचित्र्येण तदवैचित्र्यप्रसङ्गात् ॥८॥ अथ तृष्णोत्पत्तिप्रकारमाहमोहाभिणिवेसेणं चउहि वि उमकोठयाइहेऊहिं । पगरिसपत्ता तण्हा जायइ आहारसपणत्ति ॥ ८१ ॥ मोहाभिनिवेशेन चतुर्भिरवमकोष्ठतादिहेतुभिः । प्रकर्षप्राप्ता तृष्णा जायते आहारसंज्ञेति ॥ ८१॥ 0000000000000000000049-1990 JainEducation For Private Personel Use Only jainelibrary.org
SR No.600058
Book TitleAdhyatmamatpariksha Swopagnyavruttyupeta
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages240
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy