________________
अध्यात्म
परीक्षा वृ०
॥४४॥
000000000000000000000006
सामान्ययतीनामप्याहारसंज्ञाया इव मैथुनसंज्ञाया अपि सत्त्वादाहार इवाब्रह्माधुचितं स्यान्न चेदमुन्मत्तं विना कोऽपि समर्थयति चक्षुष्मान् । मैथुनसंज्ञामन्तराऽब्रह्म नेत्यत्र किन्निदानमिति चेत्तस्य गर्हितत्वेन तीव्रतराप्रशस्ताभिलापप्रभवत्वादिति तत्त्वम् । एवं चाहारसंज्ञैव प्रकर्षप्राप्ता तृष्णेति व्यवस्थितं ॥८४॥ अथास्या एवार्तध्यानहेतुत्वमुद्घोषयतिआहारचिंतणुब्भवमेयं आहारसण्णमासज्ज । वड्डइ अज्झाणं इट्टालाभेण मूढाणं ॥८५॥
आहारचिन्तनोद्भवामेतामाहारसंज्ञामासाद्य । वर्द्धत आर्तध्यानं इष्टालाभेन मूढानाम् ।। ८५ ॥ निरन्तराहारचिन्तनप्रसूतया खल्वाहारसंज्ञयेष्टाभिलाषरूपमार्तध्यानं वर्द्धते, तदप्राप्तौ च दुःखवेगमसहमानानामरतिमोहोदयपारवश्यावेदनावियोगप्रणिधानरूपं तत्प्रवर्द्धत इति। इदं च रागादिवशवर्त्तिन एवन तु मध्यस्थस्य यदागमः। मज्झत्थस्स उ मुणिणो कम्मपरिणामजणियमेयंति । वत्थुस्सहावचिंतणपरस्स सम्मं सहतस्स ॥१॥ कुणउ पसत्थालंबणस्स पडिआरमप्पसावजं । तवसंजमपडिआरं च सेवउ धम्ममनिआणति ॥ २॥ एवमपि ज्ञायते प्रशस्तचेतोवृत्त्या भोजनादौ प्रवर्तमानानामप्यार्तध्यानाभावान्नाहारसंज्ञेति । सत्ता नु तस्या आर्तध्यानस्येव रागादिपारवश्यदशायां यतीनामुपयुज्यत इति ॥८५॥ ततो यद्भवति तदाहतत्तो माणसदुक्खं लहइ जिओ कंदणाइ कुवंतो । ल«पि इट्टविसयं रईइ चिंतेइ अविओगं ॥ ८६ ॥
ततो मानसदुःखं लभते जीवः क्रन्दनादि कुर्वन् । लब्ध्वापीष्टविषयं रत्या चिन्तयत्यवियोगम् ॥ ८६ ॥
00000000000000000000000
॥४४॥
Jain Education
For Private
Personel Use Only
How.jainelibrary.org