SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ PSGOOOOOOOOOOGSPOTS ततः पुनरार्तध्यानैकलिङ्ग क्रन्दनरोदनादि कुर्वन् जीवो न केवलं क्षुद्वेदनीयोदयप्रभवं जाठराग्निजमेवोपतापमपि त्वरतिमोहोदयप्रभवमपि गाढचित्तोपतापमामोति जीवः । कश्चित्तु तथाविधादृष्टवशादिष्टमुपलभतेऽपि न तु रतिमोहोदयप्रभवतदवियोगाध्यवसानरूपादार्तध्यानाद्विश्राम्यतीति न मोहभाजां कदाचिदपि पारमार्थिकं सुखम् ॥ ८६ ॥ यस्य पुनः सकलमोहोपक्षयादेव साक्षादात्मसाक्षात्कारः समुल्लसति समुल्लसत्येव तस्य तदुपक्षयजन्यमेकान्तकान्तमत्यन्तोपरतसकलविकल्पकल्लोल जालं सातसंवेदनं, न तु विरमते वेदनीयोदयप्रभवं क्षुधादिकमपीत्याहतो मोहणीजखयओ तब्भवदुक्खाणुबंधविरहेणं । लहइ सुहं सवण्णू चएइ णो पुण छुहं चइडं ॥ ८७॥ तन्मोहनीयक्षयतस्तद्भवदुःखानुबन्धविरहेण । लभते सुखं सर्वज्ञः शक्नोति न पुनः क्षुधां त्यक्तम् ॥ ८७ ।। दुःखप्रतिपक्षभूतः परिणामो हि सुख, दुःखं च यद्यत्पापप्रकृतिजन्यं तत्तदुपक्षये तत्तद्गुणान्तर्भविष्णु सुखमुत्पद्यते । निःशेषसुखं पुनरव्याबाधाख्यं सकलकर्मक्षये वेदनीयक्षये वा । तथा च मोहोपक्षयादाविर्भूतं क्षायिकचारित्रमेव विकल्पविरहान्निराकुलत्वैकमूर्ति नित्यं सुखमाख्यायतां न वयमत्र विप्रतिपद्यामहे । ननु तन्मुख्यवृत्त्या क्षायिकं सुखं परिभाषितं सांप्रतं क्षायिकसम्यक्त्वादावपि तथा परिभाषाप्रसङ्गादप्रामाणिकपरिभाषाया अनादरणीयत्वाच्च, परिभाष्य-10 तां वा तथा, तथापि न तेन क्षुत्तृष्णादिविरोधो न हि नामान्यकर्मोपक्षयादन्यकर्मजन्यभावप्रतिरोधोऽन्यथा मोहाभावाजिनानां मनुष्यगत्यादेरप्यनुदयप्रसङ्गाद् ॥८७॥ अथ प्रकारान्तरेण मोहसापेक्षतां वेदनीयस्य निराकर्त्तमाह 10000000000000000000000 Jan Education For Private Personal Use Only hainelibrary.org
SR No.600058
Book TitleAdhyatmamatpariksha Swopagnyavruttyupeta
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages240
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy