SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ परीक्षा वृ. अध्यात्म घाइंव वेअणीयं इय जइ मोहं विणा ण दक्खयरं । पयर्ड पडिरूवाउ ता अण्णाओवि पयडीउ॥ ८८॥ घातिवद्वेदनीयं इति यदि मोहं विना न दुःखकरम् । प्रकटं प्रतिरूपास्तदन्या अपि प्रकृतयः ॥ ८८॥ ॥४५॥ ___ 'परे हि प्रतिपादयन्ति यन्मोहोदयेन जीवगुणं घातयद्वेदनीयं स्वयमघाति सदपि घातितुल्यमेवात एव घातिनां मध्ये तत्परिगणनं तथा च मोहं विना न तत् स्वकार्यजननक्षममिति । तदसत् तथाहि-किं तद् घातितुल्यत्वं घातिरसवत्त्वं वा, तद्रसविपाकप्रदर्शकत्वं वा, स्वकार्यजनने तु सत् सहभूतत्वं वा, स्वापतेयसजातीयापनायकत्वं वा, स्वकार्यकमूर्तिककार्यकत्वं वा, दोषोत्पादकत्वं वाऽन्यद्वा ? नाद्योऽसिद्धेः, न द्वितीयोऽघातिकान्तरप्रकृतीनामपि तादृशत्वा|दुक्तं हि " अघातिन्यो हि प्रकृतयः सर्वदेशघातिनीभिः सह वेद्यमानास्तद्रसविपाकं प्रदर्शयन्ति न तु सर्वदा स्वरसवि पाकदर्शनेपि ता अपेक्षन्त इति, अत एव न तृतीयोपि कदाचित्कस्य(चित्) सहभावस्याकिञ्चित्कारत्वात्, अन्यथा कदाचित्तित्तत्सहभूताः पुण्यप्रकृतयोऽपि केवलिनां कार्याक्षमतया विपरीताः प्रसजेयुः । चतुर्थपक्षोपक्षेपोऽपि तदुपक्षेपदीक्षावि-| |चक्षणानां न दाक्ष्यसाक्षी आत्मगुणत्वजात्याष्टकर्मक्षयजन्यानामष्टानामपि गुणानां साजात्यात् तद्वद् घातिनामष्टानामप्यविशेषेण घातित्वप्रसङ्गात् ज्ञानदर्शनचारित्रवीर्यान्यतरत्वेन साजात्यविवक्षणे तु तस्य तज्जातीयापनायकत्वस्या- | सिद्धत्वात् सुखघटितान्यतरत्वस्य च यादृच्छिकत्वात् । नापि पञ्चमः सर्वासामपि प्रकृतीनां सजातीयप्रकृत्यन्तरकार्याधीनप्रकर्षशालिकार्यकत्वलक्षणस्य तस्याविशेषादितरस्य च दुर्वचत्वात् । नापि षष्ठोऽष्टानामपि कर्मणामष्टसिद्धगुणप्रतिपन्थिदोषजनकत्वाविशेषाद्वक्ष्यते हि ‘नाणावरणादीणं कम्माणं अट्ठ जे ठिया दोसा । तेसु गएसु पणासं एए| 0000000000000000000000 निजी அவரருருவா பாருருருருருருருரு । ४५॥ in Education in For Private & Personal Use Only linelibrary.org
SR No.600058
Book TitleAdhyatmamatpariksha Swopagnyavruttyupeta
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages240
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy