SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ | अहवि गुणा जायत्ति ॥' देवत्वव्यवहारप्रतिपन्धिदोषत्वं तु क्षुदादेनिराकृतमेवाथ लौकिका अपि क्षुधादिपीडित देवं नानुमन्यन्ते न च क्षुधः परा पीडास्ति । छुहासमा वेअणा नस्थित्ति चेत् हन्त तर्हि केवललोकानुवृत्तिप्रणयी भवान् मनुष्यत्वमपि तस्य किमिति नापन्हुते ते हि स्वयंभुवं नित्यज्ञानेच्छाप्रयत्नवन्तं लोकोत्तरचरितं भवं भगवन्तमभिमन्यन्त इति, सप्तमस्त्वनिर्वचनादेव नोत्थातुमर्हति । घातिमध्ये परिगणितत्वादेव घातितुल्यत्वे त्वायुनामगोत्रेष्वप्यवि| शिष्टमप्रयोजकं चेति न किञ्चिदेतत् ॥८८॥ नन्वनुकूलवेदनीयं सुखं; प्रतिकूलवेदनीयं च दुःखं; न च तथाविधवेदनं | | रागद्वेषौ विनेति न वीतरागाणां तत्सम्भव इत्याशङ्कायामाह18 अणुकूलं पडिकूलं च वेअणं लक्खणं सुहदुहाणं । ण हु एसो एगंतो अपमत्तजईसु तयभावा ॥८९॥ अनुकूलं प्रतिकूलं च वेदनं लक्षणं सुखदुःखयोः । न ह्येष एकान्तोऽप्रमत्तयतिषु तदभावात् ।। ८९ ।। ___ अनुकूलवेदनीयं सुखं, प्रतिकूलवेदनीयं च दुःखमित्युपलक्षणं न तु लक्षणम् । समपूजापमानानां समसंसारमोक्षाणां चाप्रमत्तयतीनां सुखदुःखयोरव्याप्तेः नहि ते सुखमनुकूलत्वेन दुःखं च प्रतिकूलत्वेन वेदयन्ति । इच्छाद्वेषविषयत्वयोरेव तदर्थत्वात् । तथाविधवेदनयोग्यते एव तल्लक्षणे इति चेदहो केवलिसुखदुःखयोरपि तदबाधाद्,अनुकूलत्वाद्यतिसन्धानेपि सुखादिसाक्षात्कारात्तत्साक्षिकजातिगर्भमेव लक्षणमित्यन्ये । एतेन निरुपाधिकेच्छाविषयत्व| निरुपाधिकद्वेषविषयत्वलक्षणयोरपि तत्सुखदुःखयोरसंभवो दूषणमिति परास्तम् ॥८९॥ अत एव चाध्रुवसुखदुःखयोर्भोग आवश्यकः स च कर्मबन्धहेतुरिति न केवलिनां तत्संभव इत्यपि परास्तमित्याह OOOOOOOOOOOOடுடுடுடு OOOOOOOOSEBEESCOO Jain Education For Private & Personal Use Only foliainelibrary.org
SR No.600058
Book TitleAdhyatmamatpariksha Swopagnyavruttyupeta
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages240
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy