SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ अध्यात्म परीक्षा वृक्ष ஒரு GCSE GOOG अधुवाण सुहदुहाणं भोगो भोगेण कम्मबंधो अ । ण हु एसो एगतो अपमत्तजईसु तयभावा ॥ ९० ॥ अध्रुवयोः सुखदुःखयो गो भोगेन कर्मबन्धश्च । न ह्येष एकान्तोऽप्रमत्तयतिषु तदभावात् ।। ९० ।। न हि कर्मोदयप्रभवयोः सुखदुःखयो गं विना क्षयो नाम यदाहु,ह्या अपि “नाभुक्तं क्षीयते कर्म कल्पको|टिशतैरपि । अवश्यमेव भोक्तव्यं कृतं कर्म शुभाशुभमिति ।” भोगश्चासक्त्या द्वेषेण च तत्साक्षात्काररूपः पुनः कर्मबन्धस्यावन्ध्यं निदानमिति कथमसौ भगवतामितिचेदप्रमत्तयतीनामपि कथमसौ। अथ विपाककालप्राप्तिरेव भोगस्तत्परिसमाप्तेरेव च कर्मक्षय इति चेत्तदिदमन्यत्रापि तुल्यम् । एतेन न ह्यचेतयतो भोगो नाम चेतयतश्च मोहाविनाभाव इति परास्तम् आयुःकर्मादिभोगवदुपपत्तेन च तत्संवेदनमनुकूलत्वाद्यविषयकमपि मोहव्याप्तं ॥ ९० ॥ अथाज्ञानजन्य |दुःखमात्मज्ञानात् क्षीयते तदुक्तं " आत्माज्ञानभवं दुःखम् आत्मज्ञानेन हन्यते इति" तथा च साक्षात्कृतात्म- तत्त्वानां कथं दुःखसंभव इति चेन्नात्मज्ञाने सत्यज्ञानजन्यदुःखक्षयेऽपि वेदनीयोदयजन्यक्षुदाद्यविलयादित्या|शयवानाहअन्नाणजंतु दुक्खं नाणावरणक्खएण खयमेइ । तत्तो सुहमकलंकिअकेवलनाणा पुहब्भूयं ॥ ९१ ॥ अज्ञानजं तु दुःखं ज्ञानावरणक्षयेण क्षयमेति । ततः सुखमकलवितकेवलज्ञानात्पृथग्भूतम् ।। ९१॥ यः खलु ज्ञानावरणोदयपारवश्यादात्मनः सूक्ष्मार्थानालोचनादिजन्यः खेदो यश्चातस्मिंस्तदुद्ध्या प्रत्यर्थपरिणामात् । स खलु तद्विलयादेव विलीयमानः स्वभावप्रतिघाताभावादनाकुलत्वाच्च चित्रभित्तिस्थानीयम् स्वत एव सकलज्ञेयाका 5000000000000000000000004 ॥४६॥ Jain Educat i on For Private & Personel Use Only www.jainelibrary.org
SR No.600058
Book TitleAdhyatmamatpariksha Swopagnyavruttyupeta
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages240
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy