SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ -000000000000000000000000 तत्तत्थसुत्तभणिया एक्कारस जं परीसहा य जिणे । तेणवि छुहतण्हाई खइअस्स सुहस्स पडिकूलं ॥७॥ ___ तत्त्वार्थसूत्रभणिता एकादश यत्परीषहाश्च जिने । तेनापि क्षुधातृष्णादि क्षायिकस्य सुखस्य प्रतिकूलम् ॥ ७८॥ अध्यात्मिका हि स्वरसतो दिगम्बरशास्त्रमेव किञ्चित्प्रमाणत्वेनोपयन्ति श्वेताम्बरशास्त्रं तु संवादकतयेति तान् प्रत्यु|भयोपदेशोऽपि युज्यत इति तान् प्रत्येवमुपदेष्टव्यं । ननु एकादश जिन इत्युभयेषां तत्त्वार्थसूत्रम् । तथा “ एगविहबं. धगस्सणं भंते सजोगिभवत्थकेवलिम्स कइ परीसहा पण्णत्ता गो० एक्कारस परीसहा पण्णत्ता नव पुण वेयंतित्ति" प्रज्ञप्तिसूत्रं |च जिने एकादश परीषहान् प्रतिपादयति, ते च क्षुत्पिपासाशीतोष्णदंशचर्यावधमलशय्यारोगतृणस्पर्शलक्षणास्तदुक्तम् क्षुत्पिपासा शीतोष्णे दंशचर्या वधो मलः। शय्या रोगतृणस्पर्शा जिने वेद्यस्य संभवादिति' । तथा वेयणिजेणं भंते कम्मे कइ परीसहा समोअरंति! गो एक्कारस परीसहा समोअरंति पंचेव आणुपुबी चरिया सिज्जा तहेव जल्ले अ । तणफासमेव जल्लय एक्कारस वेअणिजम्मित्ति' । तथा च परिषोढुं योग्यैः क्षुत्तष्णादिभिः सह क्षायिक सुखं कथमवतिष्ठताम् । अथैकादशेत्यन्तरं न सन्तीत्यध्याहर्त्तव्यमिति चेन्न स्वामित्वचिन्तावसरे एतस्य विपरीतव्याख्यानत्वाद्, एतेनैकेनाधिका दश नेत्यप्यपव्याख्यानमावेदितम् । इत्थं चैकादश जिने सन्ति वेदनीयसत्त्वान्न सन्ति वा मोहाभावादित्यसमर्थदुराग्रहोपि निरस्तः। एवं च वेदनीयात्मक कारणसत्त्वादेकादश परीपहाः केवलिन्युपर्यन्त इति व्याख्यानमपि नद्यां निमजतः काशकुशावलम्बनप्रायं द्रष्टव्यम्, उपचारानुपचाराभ्यामेकप्रघट्टेन स्वामित्वचित्तानौचित्यादन्यथा मोहसत्त्वमात्रेणोपशान्तवीतरागेपि द्वाविंशतिपरीपहाभिधानप्रसङ्गादसाधारणकारणमेवोपचारनिबन्धनमिति चेन्न, तत्सत्त्वस्य वस्तुसत्कार्येणैव व्याप्तत्वाद्येपि वदन्ति Jain Educatio n al For Private Personal Use Only Whwininelibrary.org
SR No.600058
Book TitleAdhyatmamatpariksha Swopagnyavruttyupeta
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages240
LanguageSanskrit
ClassificationManuscript
File Size12 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy