________________
-000000000000000000000000
तत्तत्थसुत्तभणिया एक्कारस जं परीसहा य जिणे । तेणवि छुहतण्हाई खइअस्स सुहस्स पडिकूलं ॥७॥
___ तत्त्वार्थसूत्रभणिता एकादश यत्परीषहाश्च जिने । तेनापि क्षुधातृष्णादि क्षायिकस्य सुखस्य प्रतिकूलम् ॥ ७८॥ अध्यात्मिका हि स्वरसतो दिगम्बरशास्त्रमेव किञ्चित्प्रमाणत्वेनोपयन्ति श्वेताम्बरशास्त्रं तु संवादकतयेति तान् प्रत्यु|भयोपदेशोऽपि युज्यत इति तान् प्रत्येवमुपदेष्टव्यं । ननु एकादश जिन इत्युभयेषां तत्त्वार्थसूत्रम् । तथा “ एगविहबं. धगस्सणं भंते सजोगिभवत्थकेवलिम्स कइ परीसहा पण्णत्ता गो० एक्कारस परीसहा पण्णत्ता नव पुण वेयंतित्ति" प्रज्ञप्तिसूत्रं |च जिने एकादश परीषहान् प्रतिपादयति, ते च क्षुत्पिपासाशीतोष्णदंशचर्यावधमलशय्यारोगतृणस्पर्शलक्षणास्तदुक्तम्
क्षुत्पिपासा शीतोष्णे दंशचर्या वधो मलः। शय्या रोगतृणस्पर्शा जिने वेद्यस्य संभवादिति' । तथा वेयणिजेणं भंते कम्मे कइ परीसहा समोअरंति! गो एक्कारस परीसहा समोअरंति पंचेव आणुपुबी चरिया सिज्जा तहेव जल्ले अ । तणफासमेव जल्लय एक्कारस वेअणिजम्मित्ति' । तथा च परिषोढुं योग्यैः क्षुत्तष्णादिभिः सह क्षायिक सुखं कथमवतिष्ठताम् । अथैकादशेत्यन्तरं न सन्तीत्यध्याहर्त्तव्यमिति चेन्न स्वामित्वचिन्तावसरे एतस्य विपरीतव्याख्यानत्वाद्, एतेनैकेनाधिका दश नेत्यप्यपव्याख्यानमावेदितम् । इत्थं चैकादश जिने सन्ति वेदनीयसत्त्वान्न सन्ति वा मोहाभावादित्यसमर्थदुराग्रहोपि निरस्तः। एवं च वेदनीयात्मक कारणसत्त्वादेकादश परीपहाः केवलिन्युपर्यन्त इति व्याख्यानमपि नद्यां निमजतः काशकुशावलम्बनप्रायं द्रष्टव्यम्, उपचारानुपचाराभ्यामेकप्रघट्टेन स्वामित्वचित्तानौचित्यादन्यथा मोहसत्त्वमात्रेणोपशान्तवीतरागेपि द्वाविंशतिपरीपहाभिधानप्रसङ्गादसाधारणकारणमेवोपचारनिबन्धनमिति चेन्न, तत्सत्त्वस्य वस्तुसत्कार्येणैव व्याप्तत्वाद्येपि वदन्ति
Jain Educatio
n
al
For Private
Personal Use Only
Whwininelibrary.org