________________
अध्यात्म
परीक्षा वृ०
॥४१॥
00000000000000000000
आवश्कनियुक्तौ हि तीर्थकरेऽनुत्तरः प्रशस्तप्रकृत्युदयस्तदुदयबाहुल्याभिभूततया मन्दश्चाप्रशस्तप्रकृत्युदयो व्यावर्णितस्तथाहि-"संघयणरूवसंठाणवण्णगइसत्तसारऊसासा । एमाइणुत्तराई हवंति णामोदए तस्स । १ । पयडीणं अण्णासुवि पसत्थउदया अणुत्तरा हुँति । खयउवसमेविय तहा खयम्मि अविगप्पमाहंसु । २। अस्सायमाइआउ जा विअ असुहा हवंति पयडीउ । णिंबरसलवुव पए ण हुँति ता असुहया तस्सत्ति । ३।” अत्र खयउवसमेविय तहत्ति क्षयोपशमेऽपि सति ये दानलाभादयः कार्यविशेषा अपि शब्दादुपशमेऽपि ये केचन तेप्यनुत्तरा भवन्तीति क्रियायोगस्तथा कर्मणः क्षये सति क्षायिकज्ञानादिगुणसमुदायम् अविगप्पमाहंसुत्ति अविकल्पं व्याकर्णनादिविकल्पातीतं सर्वोत्तममाख्यातवन्तस्तीर्थकृद्गणधरा इति गाथार्थ इति व्याख्यानादौदयिकक्षायोपशमिकौपशमिकक्षायिकभावानां तीर्थकरनामोदयप्रसादाद्भगवत्याधिक्यमभिदधे । तत्रौदयिकानां प्रशस्तविपाकोदयप्राबल्यात् , क्षायोपशमिकौपशमिकानां च क्षायिकान्तर्भावात्ततिरोधानाद्वेति विशेषो न तु वेदनीयोदयजन्यसुखदुःखयोरपि मोहक्षयात् क्षायिकसुखेन तिरोधानं युक्तं । एवं सत्यसातवेदनीयप्रकृतिजन्या सा तस्य मूलोच्छेदे, दुग्धघटे निम्बरसलवस्थानीयत्वाभिधानानुपपत्तेः । न च प्रकृतिस्वरूपव्यावर्णनमात्रमेतदितरथा तासां कण्ठतोऽसुखजननाक्षमत्वाभिधानानुपपत्तेरिति वाच्यम्, रसदृष्टान्तोपन्यासात् । तद्वचसोबहीयसि सुखेऽल्पीयसः कवलाहाराद्यौपयिकक्षुदादिदुःखस्यासत्प्रायत्वतात्पर्यकत्वादृश्यते चाल्पस्याविवक्षणं तत्र तत्र, न चेदेवं तर्हि मोहक्षयजन्ये सुखेऽसातवेदनीयस्य स्वरूपतोऽविरोधित्वेन, तिक्तप्रकृतिकनिम्बलवानुविद्धदुग्धघटदृष्टान्ता-भिधानानुपपत्तिरिति दिग् ॥७७॥ सुखविपाकोपदेशक प्रवचनवचनमुद्भाव्य दुःखविपाकलेशोपदेशकमपि तदुद्भावयति
999999000000000000@
॥४१॥
in Educatan
For Private & Personal Use Only
ainelibrary.org