________________
00000000000000000000
तो वेअणिज्जकम्मं उदयप्पत्तं कहं हवे तस्स।णय सो पदेसउदओ समयम्मि विवागभणणाउ ॥७॥1
तद्वेदनीयं कर्म उदयप्राप्तं कथं भवेत्तस्य । न च स प्रदेशोदयः समये विपाकभणनात् ।। ७६ ॥ | न खलु केवलिनां क्षायिकं सुखं संभवत्युदयप्राप्तेन वेदनीयकर्मणा तद्विरोधात्, क्षायिक सुखं हि वेदनीयकर्मक्षयजन्यं न च तदुदये तत् क्षयः संभवतीतिभावः। अथ क्षायिकसुखे गौणं मुख्यं वा दुःखमेव साक्षात्तत्प्रतिपन्थि, वेदनीयकर्म तु तत्कारणतयैवोपक्षीणमेवं च प्रदेशोदयार्थकत्वात्तस्य च दुःखाजनकत्वात्तद्विरहे तत्र नित्यानन्दनिःस्पन्दता निराबाधेति चेन्न, तत्कर्मक्षायिकभावं प्रति तत्कर्मक्षयस्यैव हेतुत्वादन्यथा सुषुप्तावैन्द्रियकसुखदुःखादिविलये क्षायिकसुखप्रसङ्गात् । स्वसमानाधिकरणतज्जातीयप्रागभावासमानकालीनतद्विलयस्य तद्धेतुत्वान्न दोष इति चेन्न, तथापि लाघवात्तद्धेतोरेवास्तु किं तेनेति न्यायाच्च चरमदुःखध्वंसजनकस्य वेदनीयकर्मक्षयस्यैव क्षायिकसुखहेतुत्वान्न चेदेवं मोहोदयाभावमात्रेणोपशान्तगुणस्थानवर्तिनामपि क्षायिकचारित्रप्रसङ्गस्तस्मात्तत्कर्मक्षयजन्यभावे तत्कर्मसत्तैव प्रतिबन्धिकेति युक्तमुत्पश्यामोऽथ युक्तिसिद्धमेवेदमिति चेदहो अयुक्तिप्रियत्वं देवानांप्रियस्य यदत्र प्रसरति प्रद्वेषो, न च श्रुतविरुद्धमपीदं, श्रुते केवलिनि वेदनीयविपाकोदयोपदेशेन तथैव व्यवस्थानात्, प्रत्युत त्वदुक्तप्रदेशोदयस्यैव सिद्धान्तासाक्षिकत्वाद् ॥७६।। अथ तद्विपाकोदयोपदेशमेव प्रपञ्चयतिआवस्सयणिजुत्तीइ पयडिपसत्थोदयोवएसेणं । णज्जइ ता सुहयाउ असुहप्पडिवक्खवयणेणं ॥७७॥
आवश्यकनियुक्तौ प्रकृतिप्रशस्तोदयोपदेशेन । नीयते ताः सुखदा असुखप्रतिपक्षवचनात् ।। ७७ ।।
000000000000000000
For Private Personal Use Only
Jain Education
r.jainelibrary.org