________________
अध्यात्म
॥४०॥
3000000000७
क्षुदेव न लगति अपि तु तैः सा निरुध्यत इति, बुभुक्षानिरोधे भुक्तिरपि निरुध्यत इति चेन्न, तस्यास्तदहेतुत्वादिति
परीक्षावृ० स्फुटीभविष्यत्यये। इदमत्र तात्पर्य-यथाऽशरीरभावनया शरीरममत्वनिवृत्तिरेवेति तदत्यन्तोत्कर्षात्तदत्यन्तापकों न तु शरीरात्यन्तापकर्षोऽपि, क्वचित्तदपकर्षस्य दृढतरतपः परिशीलनाद्यौपाधिकत्वात्तथाऽभोजनभावनात्यन्तोत्कर्षादपि तद्भुताद्यत्यन्तापकर्ष एव सिद्ध्यति न तु भोजनात्यन्तापकर्षोऽपि, क्वचित्तदपकर्षस्य तपोऽर्थिताद्यौपाधिकत्वादिति किम-16 धिकबालबोधप्रयासेन । एवं जरातङ्कजन्मान्तकखेदानामपि कैवल्याप्रतिपन्थित्वात्तद्दोषत्वाभिधानमपि पामरशिशुप्रतारणमात्रम् । न च तज्जन्ममरणाभावः केवलिनि संभवत्यपि, जन्ममरणान्तराभावस्तु तत्कारणाभावपर्यवसितः सन् रागाद्यभ वान्नाधिकीभवितुमुत्सहते । इतरजनसाधारण्यमात्रेण स्वेदादीनां दोषत्वोक्तौ च मनुष्यत्वादीनामपि दोषत्वमुक्तिसहं स्यादिति वार्तामात्रमेतत् ॥७४॥ ननु केवलिनां क्षायिकं सुखं प्रसिद्धं, तेन च सह क्षुत्तष्णादिरूपं दुःखं नावतिष्ठते, अत एव तत्र पारिभाषिकं दोषत्वमित्यभिप्रेत्य शङ्कतेअह जइ जिणस्स खइअं सुक्खं दुक्खं विरुज्झए तेणं । तो सामण्णाभावे विसेससत्ता कहं जुत्ता ॥७५॥ अथ यदि जिनस्य क्षायिक सौख्यं दुःखं विरुध्यते तेन । तत्सामान्याभावे विशेषसत्ता कथं युक्ता ॥ ७५ ॥
॥४०॥ क्षायिकसुखशालिनां हि केवलिनां दुःखसामान्यमेव न भवति कुतस्तरां तद्विशेषभूते क्षुत्तष्णे, न हि वृक्षसामान्याभाववति प्रदेशे शिंशपासंभव इति परप्रत्यवस्थानं, तत्र बाधकमाह
TTTTTTTTTTTTTTTTT - 6
Jain Educati
o
nal
For Private & Personel Use Only
Philiww.jainelibrary.org