SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ 0000000000000000000000 हासो रत्यरती भीतिर्जुगुप्सा शोक एव च । १ । कामो मिथ्यात्वमज्ञानं निद्रा चाविरतिस्तथा । रागो द्वेषश्च नो दोषास्तेषामष्टादशाप्यमी । २ । इति" अत्र च (केवलज्ञानप्रतिबन्धकाः) केवलज्ञानकेवलदर्शनक्षायिकसम्यक्त्वचारित्रदानादिलब्धिपञ्चकं प्रत्यज्ञाननिद्रामिथ्यात्वाविरत्याद्यन्तरायाणां पृथगेव वा प्रतिबन्धकत्वं, न चेदंपरोक्तदोषेषु संभवति, न हि क्षुत्पिपासयोः कामादेरिव चारित्रप्रतिबन्धकत्वं दृष्टमिष्टं वान्यथा तेनैव ताभ्यां तदतिक्रमप्रसङ्गात् । नापि तयोज्ञानादिप्रतिबन्धकत्वमस्ति, बलापचयजनकतया तयोरीयोसमितिश्रुताभ्यासादिविरोधिताया दृष्टत्वात् , क्षायिकचारित्रज्ञानप्रतिबन्धकत्वमप्यनुमीयत इति चेन्नानभ्यासादेरिव तयोः क्षायिकज्ञानाद्यप्रतिपन्थित्वात् , क्षुदादेः स्वजनकबहिरिन्द्रियवृत्तिप्रतिपन्थितयैव ज्ञानप्रतिपन्थित्वादन्यथा मिथ्यात्वोदय इव क्षुदाद्युदयेऽपि प्राप्तज्ञानोपक्षयप्रसङ्गान्नचैवमस्ति प्रत्युत क्षुदाद्युदयं सहमानानां शुभभाववतां महर्षीणां तत्प्रवृद्धिरेव श्रूयत इति । अथ क्षुदादिजन्यातध्यानाच्छुभभावपरिहाणिः श्रूयत इति चेन्न ह्ययं तयोरपराधोऽपि त्वरत्यादेरिति विचारणीयम् । पापप्रकृतिजन्यतया तयोर्दोषत्वमिति तु मन्दप्रलपितं, परेणापि केवलिनि तादशप्रकृतिस्वीकाराद्, अथ प्रशस्तविपरीतभावनाप्रकर्षप्रयुक्तापकर्ष-10 शालित्वं दोषत्वम्, तच्च रागादाविव च क्षुदादावयस्ति, दृश्यते वीतरागभावनातारतम्येन रागादेमन्दमन्दतरमन्दतमादिभाव इति, तदत्यन्तोत्कर्षात्तदत्यन्तापकर्षोऽपि भगवतामिति । एवमभोजनभावनातारतम्यात् सकृद्भोजनकदि-16 नपक्षमाससंवत्सराद्यन्तरितभोजनादिदर्शनात् तदत्यन्तोत्कर्षादात्यन्तिकक्षुद्भुक्त्याद्यपकर्षोऽपि तेषां युज्यते इति चेन्मैवं अभोजनभावनाया भोजनभावनां प्रत्येव प्रतिपन्थित्वात, तया तन्निवृत्तावपि क्षुद्भुक्त्याद्यनिवृत्तेन खलु तपस्विनां 90006666666666OGOOGTOOOO in Educat i ona For Private & Personel Use Only www.jainelibrary.org
SR No.600058
Book TitleAdhyatmamatpariksha Swopagnyavruttyupeta
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages240
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy