________________
अध्यात्म
!परीक्षावृ०
@
॥३९॥
@
कश्चिदपि प्रेक्षापूर्वकारीतिचेद्भवेदेवं यदि वयं त्वया परिभाषितानेव दोषान् परिभाषामहे, न चैवं, किंत्वात्मगुणदू. पणमेव दोपलक्षणं ब्रूमो, न च तथात्वं क्षुत्पिपासयोरस्तीत्याशयेनाह--
तो सक्का वुत्तुं जे छुहतण्हाई जिणस्स किर दोसा । जइ तं दूसेज्ज गुणं साहावियमप्पणो कंवि ॥ ७३ ॥ का तच्छक्यं वक्तुं यत्क्षुधातृष्णादि जिनस्य किल दोषः । यदि तद् दूषयेद्गुणं स्वाभाविकमात्मनः कमपि ॥ ७३ ॥ दूसइ अवाबाहं इय जइ तुह सम्मओ तयं दोसो । मणुअत्तणंवि दोसो ता सिद्धत्तस्स दूसणओ ॥७॥
दूषयत्यव्याबाधं इति यदि तव सम्मतस्तद्दोषः । मनुजत्वमपि दोषस्तत्सिद्धत्वस्य दूषणतः ।। ७४॥ यदि हि क्षायिकसुखरूपात्मगुणदूषकत्वात् क्षुत्तष्णयोर्दोषत्वमुद्भावयेयुः परे तर्हि मनुष्यत्वमपि केवलिनां का सिद्धत्वदूषकतया दोषः प्रसज्यत इति पर्यनुयोगे तेषामप्रतिभया नखशिखाग्रैर्भूविलेखनमेव चिरमनुशीलनीयं स्यादथ सिद्धत्वप्रतिबन्धकस्तद्व्यवहारप्रतिबन्धकश्च दोषो जिनेषु सन्नप्याकिंचित्करः, कैवल्यप्रतिबन्धकदोषविलयेन तद्व्यवहारस्य तत्रान्तरीयकनिर्दोषत्वव्यवहारस्य च निराबाधत्वादिति यदि ते शरदां शतं परिभाव्योत्तरं दघुस्तर्हि क्षुत्पिपासयोरपि कैवल्यप्रतिबन्धकत्वे प्रमाणाभावात् कथमेकं सीव्यतां नापरप्रच्युतिर्घातिकर्मक्षयजन्यकेवलज्ञानं हि घातिकर्माणि तदविनाभाविनः परिणामा वा प्रतिबध्नन्ति न त्वघाति वेदनीयं कर्म, तज्जन्यक्षुत्पिपासापरिणामौ वाऽत एव घातिकर्मजन्यानेवाष्टादशदोषान्दानान्तरायादीन साधु परिभाषन्ते प्रगल्भास्तदाहुः। “ अन्तराया दानलाभवीर्यभोगोपभोगगाः ।
@
2000@@@@
Jain Education
For Private & Personel Use Only
D
ainelibrary.org