________________
GOOOOOOOOOOOOOOOG
व्यभिचार इत्याहुरेवं चोत्तरोत्तरभावविशुद्ध्या गुणश्रेणिमधिरुह्य काष्ठाप्राप्तवैराग्यदशानिमूलकाकषितघनघातिक-| मा परापेक्षाविरहेण परिनिष्ठितसकलकृत्यः सहजानन्तचैतन्यप्रकाशविश्रान्तविलसदनेकान्तवादमुद्रामुद्रितभुवनत्रयान्तभूतविषयाकारसञ्चारस्फारगुणरत्नराशिः केवली भवति ॥७१॥ अत्र चेदमुत्कर्णमाकर्ण्य कर्णप्रणालीनिपतितसकर्णवर्णनीयवर्णगणसलिलपरिशीलनवशादन्तरुद्बुद्धसिताम्बरसमयद्वेषज्वरप्रसरविषमपरिणतिः कम्पमानाधरः कौँ विधुन्वन्ना-10 ध्यात्मिकः प्रलपतिनणु जइ सो कयकिच्चो अहारसदोसविरहिओ देवो । ता छहतहाभावा जुज्जइ कम्हा कवलभोई ७२] 61
ननु यदि स कृतकत्योऽष्टादशदोषविरहितो देवः । तत्क्षुधातृष्णाभावात् युज्यते कस्मात् कवलभोजी ।। ७२॥ ननु कृतकृत्यत्वं तावद्देवत्वव्यवहारनिबन्धनं निःशेषदोषराहित्यमेवाभिधानीयं । दोषाश्चाष्टादश प्रसिद्धा यहूषितानां |जन्तूनाम् अनाप्तत्वं यद्विरहे चाप्तत्वमिति यदाह प्रभाचन्द्रः क्षुत्पिपासाजरातङ्कजन्मान्तकभयस्मयाः। न रागद्वेषमोहाश्च
यस्याप्तः स प्रकीयंत इति" अस्यार्थः । क्षुच्च बुभुक्षा, पिपासा च तृषा, जरा च वृद्धत्वं, आतङ्कश्च व्याधिः, जन्म |च कर्मवशाच्चतुर्गतिषूत्पत्तिः, अन्तकश्च मत्युः, भयं चेहपरलोकात्रात्रगुप्तिमरणवेदनाकस्मिकत्वलक्षणं, स्मयश्च जातिकुलादिदर्पः, रागद्वेषमोहाः प्रसिद्धाः च शब्दाच्चिन्तारतिनिद्राविस्मयविषादखेदा गृह्यन्ते, एतेऽष्टादश दोषा यस्य न सन्ति स आप्तः प्रकीर्त्यते प्रतिपाद्यत इति । तथा च केवलिनः कृतकृत्यत्वे स्वीकृते क्षुत्पिपासाभावस्यावश्यं स्वीकारात् तस्य कवलभोजित्वप्रतिज्ञा कथमिव चतुरचेतश्चमत्कारिणी, न हि कारणं विना कार्योत्पत्तिमुररीकुरुते
BSFOOOOOOOOOOOOOOOOO
Jan Education
a
l
For Private & Personal Use Only
Jr.jainelibrary.org