SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ 8 अध्यात्म० धतिः श्रद्धा सुखा विविदिषा विज्ञप्तिरिति तत्त्वधर्मयोनय इति हि पातञ्जलादिषु प्रसिद्धम् । तत्रोद्वेगादिपरिहारेण परीक्षावृ० चेतसः स्वास्थ्य प्रतिस्तया च मागोंनुसारितत्त्वरुचिजेन्यत तामेव श्रद्धामाहुस्तया च भुजङ्गमनलिकायामतुल्यो विशिष्टगुणस्थानरत्नप्रदानशौण्डः स्वरसवाही क्षयोपशमविशेषो जन्यते यमन्ये सुखेत्याचक्षते।सुखा विशिष्टाहादरूपेति पञ्चाशकवृत्तिव्याख्यानं कथमिति चेत् कार्ये कारणोपचारेण, पराभिप्रायेण वा, न ह्याहादस्य तत्त्वचिन्ताजनकत्वं नाम16 क्षयोपशमेन तस्योपक्षीणत्वात्तद्विहीनानामपि तत्प्रसङ्गाच्च । तया च तत्त्वचिन्तारूपमध्यवसानं जन्यते यदन्ये विवदि-1 पामाचक्षते तत एव हि शुश्रुपाश्रवणग्रहणधारणविज्ञानोहापोहतत्त्वाभिनिवेशा प्रज्ञागुणाः प्रादुर्भवन्ति प्रथमजलधर-12 जलनिपातादिवाभिनवप्ररोहा एनं विना भवन्तस्त्वेते तदाभासा एव न तु तात्त्विकास्तदेवं प्रज्ञागुणजननक्रमेण तत्त्वचिन्तया बोधिर्जन्यते इयं च करणत्रयव्यापाराभिव्यङ्गयम् प्रशमसंवेदनिर्वेदानुकम्पास्तिक्याभिव्यक्तलक्षणं | सम्यग्दर्शनमुच्यते तदन्ये विज्ञप्तिमाहुः तदेवमेतैः करणैरुत्पन्नधर्मभावस्य यथोचितानुष्ठानपरायणस्य सतो भावान्तरं | प्रवर्द्धते । “ सइ संजाओ भावो पायं भावंतरं तओ कुणइ” इति वचनादत्र प्रायो ग्रहणं प्रागसञ्जाततथाविधभावानां मरुदेव्यादीनां भावप्रकर्षप्राप्त्या यो व्यभिचारस्तत्परिहारार्थमिति व्याचक्षतेऽत्र च भावः क्रियाविषयो ग्राह्यः । ॥३८॥ “वेलाइविहाणंमी तग्गयचित्ताइणा य विन्नेओ। तबुढिभावभावेहि तहय दवेयरविसेसोत्ति” गाथायाःप्राक् प्रक्रान्तत्वादन्यथा तादृशभावसामान्य प्रति क्षयोपशमविशेषस्य अव्यवहितोत्तरत्वसंबन्धेन भावविशिष्टभावं प्रति च भावस्य हेतुतया व्यभिचारानवकाशात् । भावपूर्वक्रियाया अपि भावजन्यतावच्छेदकजातिव्याप्यजात्यवच्छिन्नं प्रति हेतुत्वान्न 0000@@@@ 00000000000000000 @ ताइणा य विन्नेओ । तहितोत्तरत्वसंबन्धेन भावावा @@@ प्रति हेतुत्व @@ Jain Education For Private Personal Use Only ww.jainelibrary.org
SR No.600058
Book TitleAdhyatmamatpariksha Swopagnyavruttyupeta
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages240
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy