SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ 00000000000000 छिन्नज्वालादृष्टान्तेन तत्संभवादित्याहुः तदुक्तं पञ्चाशके “सञ्चत्यवि पणिहाणं तग्गयकिरियाभिहाणवन्नेसु । अत्थे विसए अतहा दिहतो छिन्नजालाए॥२॥णय तत्थवि तयणूणं हंदि अभावो(वओ)ण उवलंभो त्ति।चित्तस्सविविन्नेओएवं सेसोवओगेसुत्ति॥" यथा हींधनस्थाग्नित्रुटितार्चिषः संबद्धतयानुपलभ्यमानस्यापि सन्तत्यविच्छेदेन तत्संबद्धत्वमेवैवं विषयान्तरेऽनुपलभ्यमानमपि प्रणिधानं सन्तत्यविच्छेदात्संविलग्नमेवोत्कटविषयस्यैव प्रणिधानोपलम्भहेतुत्वादुत्कटत्वं च जिज्ञासाविशेषविषयत्वादिकं बोध्यं । यथा वाऽलाते भ्राम्यमाणे चक्रदण्डाद्याकारप्रतिभास आशुवृत्तिकृत एव न तु| तात्त्विकः स्वाऽवगाहकक्षेत्रादन्यत्र तदवस्थानानुपपत्तेस्तथा क्रियादिप्रणिधानेष्वेकत्वप्रतिभासोप्याशुवृत्तिकृत एवेति दिग् । अपि च भावक्रियाहेतुर्जिज्ञासेति तावन्निर्विवादं “जिण्णासावि हु एत्थं लिंग एयाइ हंदि सद्धाए नेवाणंगणिमित्तं सिद्धाए सा तयट्ठीणंतिवचनात्" तथा च तस्यां सत्यां कस्य नाम न विहितानुष्ठानप्रवृत्तिरिति किमक्रियारुचिकदाग्रहनस्तेन सह विचारणया ॥६९॥ अथ भाववृद्धिक्रमेणोत्तरोत्तरगुणस्थानप्राप्तिमुपदिशतिका घिइसद्धासुहविविइसविणत्ती तत्तधम्मजोणित्ति । तल्लद्धधम्मभावा वड्डइ भावंतरं तत्तो ॥ ७० ॥ धृतिश्रद्धासुखाविविदिषाविज्ञप्ति(सय)स्तत्त्वधर्मयोनिरिति । तल्लब्धधर्मभावाद्वर्धते भावान्तरं ततः ॥ ७० ॥ एवं पवढभावो कमेण गुणठाणसेढिमारुहिय । पक्खीणघाइकम्मो कयकिच्चो केवली होइ ॥ ७१ ॥ एवं प्रवृद्धभावः क्रमण गुणस्थानश्रेणिमारुह्य । प्रक्षीणघातिका कृतकृत्यः केवली भवति ॥ ७१ ।। Jain Education For Private & Personel Use Only Mainelibrary.org
SR No.600058
Book TitleAdhyatmamatpariksha Swopagnyavruttyupeta
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages240
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy