________________
अध्यात्म
परीक्षावृ०
॥३७॥
वतीति सा कथमाद्रियतामितिचेद्भावोप्यनन्तशः प्राप्त इति सोऽपि कथमाद्रियता ? विशिष्टभावोऽपूर्व इति चेद्विशिष्टा क्रियापि तथेति किमनुपपन्नमित्याशयेनाहखाओवसमिगभावो सुद्धो हेऊ सुहस्सखइअस्स। तब्भावेण कया पुण किरिया तब्भाववुद्धिकरी ॥१९॥
क्षायोपशमिकभावः शुद्धो हेतुः शुभस्य क्षायिकस्य । तद्भावेन कृता पुनः क्रिया तद्भाववृद्धिकरी ।। ६९ ।। | पुनः पुनरभ्यासेन नैर्मल्यं प्राप्तो हि मिथ्यादर्शनादिक्षयोपशमप्रादुर्भूतः सम्यग्दर्शनादिभावः सिद्धिहेतोः केवलज्ञानादिक्षायिकभावस्यावन्ध्यं निदानमिति निर्विवादं, ततस्तद्भावप्रवृद्धये यतनीयं निर्बिणातिभिस्तद्भावप्रवृद्धिकरी च तद्भावेन दृढयत्नवता विधीयमाना किया तथा च हारिभद्रं वचः “खाओवसमिगभावे दढ जत्तकयं सुहं अणुहाणं । परिवडियंपि य हुज्जा पुणोवि तब्भाववुड्डिकरं ।” ततश्च भावाग्रहयालुस्तद्वद्धिकारणीभूतां क्रियां कुतो नागृहणीयान्नहि नेयमपूर्वानामातुनर्बन्धकाधुचितभावपूर्वकक्रियायास्तद्वदेवापूर्वत्वादन्यादृशपूर्वत्वस्य चादरापरिपन्थित्वात् । स्यादेतत् क्रिया स्वरूपतो नादेया न वा हेयाऽपि तु क्षायोपशभिकभावविशेषितादेयौदयिकभावविशेषिता तु हेयेति विशिष्टविधि
निषेधयोर्विशेषण एव पर्यवसानमिति । मैवं मनोवाक्कायक्रियाभेदानां विचित्रकार्यजनकत्वोपदेशेनान्यतरोपक्षयायोगाजादवच्छेदकस्याहेतुत्वात् । तथात्वेऽपि विनिगमनाविरहाद्भावविहितानुष्ठायस्यैव स्वप्रकाशयोगिसाक्षात्कारेण भाववृद्धिज|नकत्व विभावनाच तदुक्तं । “ अणुहवसिद्धं एयं पायं तह जोगभाविअमईणंति ।” अपि च भावश्चित्तप्रणिधानरूपः स च |विहितानुष्ठानं विना किमालम्ब्य प्रवर्त्ततां ! न च क्रियाभिधानवार्थविषयेषु कथमेकदाऽनेकोपयोगाः संभवेयुरिति वाच्यम्
॥३७॥
in Educhland
For Private Personal Use Only
ainelibrary.org