SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ 000000 मैवं व्यापकाव्यापकविषयत्वादिनैव शुद्धाशुद्धभेदव्यवस्थानादन्यथाऽतिप्रसङ्गादिति ॥६७॥ ये पुनराहुभाव एवादरणीय इत्यभिप्रायरूपो निश्चयः शुद्ध इति स एव बलवानिति तान् सदण्डमनुशासितुमाहणिच्छयणयस्स विसयं भावंचिय जे पमाणमाहंसु । तेसिं विणेव हेउं कजुप्पत्तीइ का मेरा॥ ६॥ निश्चयनयस्य विषयं भावमेव ये प्रमाणमाहुः । तेषां विनैव हेतुं कार्योत्पत्तौ का मेरा ॥ ६८॥ यथा ह्यानन्तर्येण फलसाधकत्वाद्भाव आदरणीयस्तथा पारम्पर्येण फलसाधकत्वाद्रव्यमपि तथान्यथा चक्रभ्रमण एव बद्धोत्साहाः कुलालाः कलशार्थ मृत्पिण्डदण्डचीवरखण्डादीनपि नाद्रियेरन् । प्राच्यदशायामेव तदादरणं नाग्रिमदशायामिति चेत्तदेवं विषयभेदनियमं कालभेदं कः प्रतिक्षिपति, द्रव्यानादरवासनाया एव देवानांप्रियस्य पराकरणीयत्वान्न च तत्कालानादरणीयत्वादनादरणीयत्वं नामातिप्रसङ्गादथ भावार्थितयैव द्रव्यस्यादरणं नतु द्रव्यार्थितया भावस्येत्यस्ति विशेष इति चेकिमत्र क्रियतां! कार्यार्थितयैव कारणस्यादरणात्, अथ परमभावदर्शिनो निश्चयनयमाद्रियमाणा भावमेवाद्रियन्तेऽपरमभावगतास्तु व्यवहारमाद्रियमाणा द्रव्यमपि । तदुक्तं समयसारे "सुद्धो सुद्धादेसो णायबो परमभा वदरिसीहिं । ववहारदेसिआ पुण अपरमभावे ठिआ जे उत्ति।" इति चेत्सत्यं तथापि भावकारणीभूतमन्ततः शुद्धात्मद्रव्यमप्यनादृत्य न ते भावमादत्तुमुत्सहन्ते । अथ निश्चयकारणीभूतं द्रव्यमाद्रियमाणा अपि व्यवहारकारणीभूतं द्रव्यं नाद्रियन्त इति चेन्न कारणं चानादरणीयं चेति वचोविरोधाच्छुद्धशुद्धतरव्यवहारस्य पुरतोऽपि प्रवचने प्रतिपादित|त्वाच्च॥६८॥अथ मुद्राविन्यासादिरूपा व्यवहारक्रिया संसारचक्रवाले परिभ्रमता जन्तुनानन्तशःप्राप्तेति न विशिष्टफल Jain Education a l For Private Personel Use Only aw.jainelibrary.org
SR No.600058
Book TitleAdhyatmamatpariksha Swopagnyavruttyupeta
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages240
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy