SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ 000000 मैवं व्यापकाव्यापकविषयत्वादिनैव शुद्धाशुद्धभेदव्यवस्थानादन्यथाऽतिप्रसङ्गादिति ॥६७॥ ये पुनराहुभाव एवादरणीय इत्यभिप्रायरूपो निश्चयः शुद्ध इति स एव बलवानिति तान् सदण्डमनुशासितुमाहणिच्छयणयस्स विसयं भावंचिय जे पमाणमाहंसु । तेसिं विणेव हेउं कजुप्पत्तीइ का मेरा॥ ६॥ निश्चयनयस्य विषयं भावमेव ये प्रमाणमाहुः । तेषां विनैव हेतुं कार्योत्पत्तौ का मेरा ॥ ६८॥ यथा ह्यानन्तर्येण फलसाधकत्वाद्भाव आदरणीयस्तथा पारम्पर्येण फलसाधकत्वाद्रव्यमपि तथान्यथा चक्रभ्रमण एव बद्धोत्साहाः कुलालाः कलशार्थ मृत्पिण्डदण्डचीवरखण्डादीनपि नाद्रियेरन् । प्राच्यदशायामेव तदादरणं नाग्रिमदशायामिति चेत्तदेवं विषयभेदनियमं कालभेदं कः प्रतिक्षिपति, द्रव्यानादरवासनाया एव देवानांप्रियस्य पराकरणीयत्वान्न च तत्कालानादरणीयत्वादनादरणीयत्वं नामातिप्रसङ्गादथ भावार्थितयैव द्रव्यस्यादरणं नतु द्रव्यार्थितया भावस्येत्यस्ति विशेष इति चेकिमत्र क्रियतां! कार्यार्थितयैव कारणस्यादरणात्, अथ परमभावदर्शिनो निश्चयनयमाद्रियमाणा भावमेवाद्रियन्तेऽपरमभावगतास्तु व्यवहारमाद्रियमाणा द्रव्यमपि । तदुक्तं समयसारे "सुद्धो सुद्धादेसो णायबो परमभा वदरिसीहिं । ववहारदेसिआ पुण अपरमभावे ठिआ जे उत्ति।" इति चेत्सत्यं तथापि भावकारणीभूतमन्ततः शुद्धात्मद्रव्यमप्यनादृत्य न ते भावमादत्तुमुत्सहन्ते । अथ निश्चयकारणीभूतं द्रव्यमाद्रियमाणा अपि व्यवहारकारणीभूतं द्रव्यं नाद्रियन्त इति चेन्न कारणं चानादरणीयं चेति वचोविरोधाच्छुद्धशुद्धतरव्यवहारस्य पुरतोऽपि प्रवचने प्रतिपादित|त्वाच्च॥६८॥अथ मुद्राविन्यासादिरूपा व्यवहारक्रिया संसारचक्रवाले परिभ्रमता जन्तुनानन्तशःप्राप्तेति न विशिष्टफल Jain Education a l For Private Personel Use Only aw.jainelibrary.org
SR No.600058
Book TitleAdhyatmamatpariksha Swopagnyavruttyupeta
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages240
LanguageSanskrit
ClassificationManuscript
File Size12 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy