________________
00000000000000000000000
|पयोग्यभेदवृत्तिप्रतिसन्धायकतया निश्चयोपयोगः प्रतिपादयितुं भवतोपक्रान्तो व्यवहारार्पितज्ञानहेतुकत्वपुरस्कारेणापि तत्प्रवृत्तेरपि तु स्वविषयमात्रेण सकलभङ्गोपग्राहकतया, न च तथात्वं तस्याद्यापि सिद्धिमध्यास्त, सकलादेशनियामकत्वरूपं व्यवहारातिशायित्वं तु निश्चयस्य सर्वाभिमतविषयत्वमिव बाढमनुमन्यामह एव यत्तु “ तवसंजमो अणुमओ णिग्गंथं पवयणं च ववहारो।" इति वचनाद् व्यवहारस्यैव ज्ञानक्रियारूपविषयद्वय विस्तारात्मकसकलभङ्गोपग्राहकत्वं बलवत्त्वा-16 वेदकमिति तन्नार्पणान्तरप्रयोजकनयान्तराभावे भङ्गसाकल्यासंभवाव्यवहारेणापि ज्ञानस्य प्रधानतया तपःसंयमयोस्तूपस-1 तुनतयैव हेतुत्वाभ्युपगमान्नहि स्वविषयप्रधानतया सकलाभ्युपगमेऽपि नयस्य प्रामाण्य मिष्टं अन्यथा सामान्यविशेषोभय-| स्वीकराप्रवणस्योलूकदर्शनस्य प्रामाण्यप्रसङ्गान्न चैवमिष्यते, यद्बभाण भगवान् भाष्यकारः “दोहिवि णएहि णीय सत्थमुलूएण तह वि मिच्छत्तं । जं सविसयप्पहाणतणेण अन्नोन्नणिरवेक्खंति।"॥६६॥ तदेवं प्रत्येकं भङ्गोपग्राहकत्वं द्वयोस्तुल्यमेव, बलं प्रति भङ्गसकलादेशप्रयोजकतया तु निश्चयोऽतिरिच्यत इत्युक्तं एतदेव विवेचयतिजेणं सयलादेसो अभेयवित्तीइ णिच्छयाधीणो। तेणेव सो पमाणं न पमाणं होइ ववहारो ॥६६॥
येन सकलादेशोऽभेदवृत्तौ निश्चयाधीनः । तेनैव स प्रमाणं न प्रमाणं भवति व्यवहारः ॥६६॥ KP नहि निश्चयनयवाक्यमेव सकलादेशोऽपि तु प्रमाणवाक्यं, तन्नियामकाभेदवृत्तिप्रतिसन्धायकतया च निश्चयोऽपि
000000000000000
Jain Education
na
For Private & Personel Use Only
wew.jainelibrary.org