SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ अध्यात्म @@ सवणयमयत्तं पुण सवेसिं संमओ जओ विसओ णय णिच्छयस्स तेणं सयलादेसत्तमेगस्स ॥ ६५ ॥ परीक्षा वृ० सर्वनयमयत्वं पुनः सर्वेषां सम्मतो यतो विषयः । न च निश्चयस्य तेन सकलादेशत्वमेकस्य ।। ६५ ।। एतावदेव हि निश्चयस्य सर्वनयमयत्वं, सर्वनयमतत्वं वा, यदस्य विषयो भावः सर्वेषां नयानां संमत इति तदाह भगवान्भाष्यकारः । “सवणया भावमिच्छंतित्ति" न चैतावतैव तद्वाक्यस्य सकलादेशत्वं, यौगपद्येन सकलधर्माप्रति-16 पादनात् , प्रमाणप्रतिपन्नानन्तधर्मात्मकवस्तुनः कालादिभिरभेदवृत्तिप्राधान्यादभेदोपचाराद्वा यौगपद्येन प्रतिपादक वचः सकलादेश, इति हि तल्लक्षणम् । अयमर्थः 'पर्यायार्थिकनयं गौणीकृत्य, द्रव्यार्थिकं च प्रधानीकृत्य, तत्कालीनत्वलक्षणेन कालेन, तद्गुणत्वलक्षणेनात्मरूपेण, तदाधारकत्वलक्षणेनार्थेन, तदविष्वग्भावलक्षणेन संबन्धेन, तदनुरञ्जकत्व-| लक्षणेनोपकारेण, तदवगाहकावगाढत्वलक्षणेन गुणिदेशेन, भेदप्रधानतत्संबन्धरूपेण संसर्गेण, एकशब्दवाच्यत्वलक्षणेन शब्देन च सह; यदैकधर्मेण सह सकलधर्माणामभेदवृत्तिःप्रतिसन्धीयते; यदा वा द्रव्यार्थिकनयगौणभावे पर्याया-12 र्थिकनयमुख्यतायां च नाभेदवृत्तिरुज्जीवतीत्यभेदोपचार एवाश्रीयते, तदैकेनापि शब्देनानेकधर्मप्रत्यायनमुख्येन तदा-1 त्मकतामापन्नस्यानेकाशेषधर्मरूपस्य वस्तुनो यौगपद्येन प्रतिपादनात् सकलादेशो', 'यदा तु भेदवृत्तिप्राधान्यात्, भेदो-101 पचाराद्वा, नैकः शब्दोऽनेकधर्मप्रत्यायनक्षमस्तदा क्रमेण तावद्धर्माभिधायकं वाक्यं विकलादेश इति कथं नयद्वयक्रमयुगपदर्पणमनपेक्ष्य सप्तभणयप्रवृत्तौ तत्र प्रतिभङ्गनियतःसकलादेशत्वविचारोऽभित्तिचित्रार्पित इति' न खलु सकलादेशो SOOOOOOSSSSருருருருரு @@ Jain Education a l For Private & Personel Use Only www.jainelibrary.org
SR No.600058
Book TitleAdhyatmamatpariksha Swopagnyavruttyupeta
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages240
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy