SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ ते पुनः पूर्व ज्ञानदेवं निश्च 00000000000000000000000 तं कत्तो भन्नइ, तं समयणिबद्धदेवओवहियं । किरियाफलं चिय जओ, न नाणमित्तोवओगस्सत्ति । " यथाहि-नभोग-| मनमुद्दिश्य देवताहानाय प्रवर्त्तमानस्य मन्त्रानुस्मरणं तत्प्रवृत्तिहेतुः, तथा कर्मक्षयमुद्दिश्य चारित्रे प्रवर्त्तमानस्य प्रवचनज्ञानमपि तत्प्रवृत्तिहेतुः, अग्रिमफलं त्वविनाभावादितिपरमार्थः । एतेन देवताह्वाने मन्त्रानुस्मरणं यथा केवलमेव हेतुस्तथा कार्यान्तरेष्वपि ज्ञानं केवलमेव तथेति परास्तम् । न हि चक्रभ्रमणे केवलो दण्डो हेतुरिति घटेपि तन्निरपेक्षस्तथा, यत्तु 'देवताहानेऽपि पुनः पुनः परिजपनपूजनादिक्रियापेक्षा मलयगिरिचरणैरभिदधे' तत्त क्वाचित्की वस्तुस्थितिमनुरुध्यान्यथा पूजनादेरपि पूर्व ज्ञानस्यैव विश्रामात् , प्रथमज्ञानप्रवृत्त्योः समकालभाविन्योरपि कार्यकारणभावाभिप्रायाश्रयणाद्वेति सर्वमवदातम् । तदेवं निश्चयव्यवहारयोर्यादृच्छिको मुख्यामुख्यविभागोऽकिंचित्कर इत्युक्तं, यदि पुनर्व्यवहारवादिनः स्वविषये ज्ञाने मुख्यत्वविवक्षा न निवर्तते, तदा स एवं प्रतिबोधनीयो, ननु चरणमेव प्रधानं तस्य ज्ञानसारत्वेनाभिधानाद्यदागमः "सामाइअमाईअं सुअनाणं जाव बिंदुसाराओ।। तस्सवि सारो चरणं सारो चरणस्स निवाणं ति ।” अपि च ज्ञानमपि चरणयोगेनैव ज्ञानं, अन्यथा तस्याज्ञानादविशेपादाह च-"तद्ज्ञानमेव न भवति, यस्मिन्नुदिते विभाति रागगणः । तमसस्तु कुतः शक्तिर्दिनकरकिरणाग्रतः स्थातुक मिति । किञ्च ज्ञाने मुख्यत्वं काल्पनिकं, चरणे तु कार्योपयोगि, न खलु मुख्यत्वेनोपचरितोऽपि दण्डश्चरमकपालसंयोगमनपेक्ष्य घटं जनयितुं प्रभुरिति दिग् ॥ ६४ ॥ अथ द्वितीयहेतुदूषणमुद्दिधीर्घराह 000000000000000000000904 Jain Education a l For Private Personal use only A jainelibrary.org
SR No.600058
Book TitleAdhyatmamatpariksha Swopagnyavruttyupeta
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages240
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy