________________
अध्यात्म०
॥३४॥
-0000000000000000000000004
स्वभावतया घटहेतृत्वमिति । स्यादेतत् , सुशोधयितृप्रवृत्तौ शोध्यनिश्चयस्य नाशार्थिप्रवृत्ती नाश्यनिश्चयस्य वा हेत-16
परीक्षावृ० त्वात् , कर्मापनिनीषुप्रवृत्तौ तन्निश्चयमात्रमुपयुज्यतां, किमितरज्ञानेन? मैवं । यावत्सु हेयेषु हेयत्वज्ञानस्य ज्ञानविज्ञानक्रमेण श्रवणादेव संभवे, ततः प्रत्याख्यानसंयमानाश्रवतपोव्यवदानाक्रियत्वजननक्रमेण परमपदलाभोपदेशात् , तथा च प्रज्ञप्ती संग्रहणिगाथा । "सवणे नाणे य विन्नाणे, पच्चक्खाणे अ संजमे । अणहए तवे चेव, बोदाणे अकिरिआ सि.6 द्धित्ति ।” तथा च सावद्ययोगनिवृत्तिनिरवद्ययोगप्रवृत्तिरूपचारित्रे हेयत्वोपादेयत्वज्ञानायैव विधिनिषेधवाक्यघटितं प्रवचनमुपयुज्यतेऽत एव जघन्यतोऽष्टप्रवचनमातृश्रुतमप्युपदिश्यते तावताप्युक्तप्रयोजनसंभवात् , तावत्श्रुतज्ञानो-17 पजनितचारित्रप्रवृत्तेश्चाशुभयोगहानं साध्यं कर्महानं तूद्देश्यमिति विशेषः, एवं च रेणोरिव कर्मणः साक्षादपनयनाsसंभवात् कथ दृष्टान्तः सुस्थ इति निरस्तम् । समर्थितश्च ज्ञानस्य प्रकाशकतोपयोगोऽन्यथा हेयोपादेयविपर्यये विवेकासंभवादत एव ज्ञानविरहितक्रियाया अल्पफलत्वमुक्तं यथावद्ज्ञानस्यैव यथावत्प्रवृत्तिहेतुत्वात् , यदप्युक्तं 'ज्ञानमेव प्रधानं क्रिया निरपेक्षादेव मन्त्रानुस्मरणाद्विपघातनभोगमनादिदर्शनादिति' तदप्यपेशलं, तत्रापि परिजपनादिक्रियासध्रीचीनमन्त्रोपयोगादेवोक्तफलसंभवाद्यदाह-"परिजवणाईकिरिया मन्तेसुवि साहणं ण तम्मत्तं । सन्नाणओ अन फलं |तन्नाणं जेणमक्किरियं ।” अथ परिजपनमपि धारावाहिकं तद्ज्ञानमेव, न तु क्रिया, न चाक्रियस्याकाशवत् कार्यजनकत्वमसङ्गतमिति वाच्यम् । क्रियायाः संयोगविभागादावेव (देव) हेतुत्वेन तां विनाकाशादावपि कार्यान्तराभ्युपगमादितिचेत्सत्यं, तथाप्यत्र नभोगमनादिक्रियायास्तन्मन्त्रसङ्केतोपनिवद्धदेवतोपाहृततया क्रियानिरपेक्षत्वासिद्धेराह च । “ता
3900000000000
•JainEducation
For Private & Personal use only
Pw.jainelibrary.org