SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ | या तयं पहाणयरं। जुत्तं कारणमहवा समयं तो दोन्नि जुत्ताई"ति । यदि हि अन्त्यानन्त्यविभागमुक्तातिशयशालिकार्यकत्वं तद्विपर्ययविभागं चानादृत्य सामान्यतो द्वयोस्तुल्यवत्कारणत्वमेव जिज्ञासितं, तदा तथैव तत्परिच्छेनं प्रमाणमुत्सकहते । यदि तु तयोः कारणत्वं प्रतिसन्धायापि मुख्यत्वामुख्यत्वजिज्ञासैव प्रवर्त्तते, तदा मुख्यत्वमपि तयोरविशेषेणैव दर्शयन् प्रमाणतां पूरयितुमुत्सहेतापेक्षिकयोमुख्यत्वगौणत्वयोर्हस्वत्वदीर्घत्वयोरिवाविरोधात, स्यादेतत, ज्ञानं परि|च्छेद एवोपक्षीणं, स च मोक्षजनकमिति, मैवं; शिबिकावाहकपुरुषयोरिव ज्ञानक्रिययोरेकस्वभावेनासहकारित्वात् , गतिक्रियायां नयनचरणयोरिव भिन्नस्वभावतयैव तयोः सहकारित्वात् , प्रकाशगुप्तिविशुद्धयोः स्वभाववैचित्र्य एवानुप्रवेशाद्यदागमः "नाणं पयासयं सोहओ तवो संजमो य गुत्तिकरो। तिण्हपि समाओगे मुक्खो जिणसासणे भणिओत्ति” । यथा हि कचवरपूरितगृहविशुद्धये प्रदीपप्रज्वालनसंमार्जकपुरुषव्यापारेण वातायनजालकादिस्थगनानि | रेण्वादिप्रकाशबाह्यरेण्वादिप्रवेशनिःषेधाभ्यन्तररेणुसंशोधनव्यापारतयोपयुज्यन्ते तथा जीवगृहविशुद्धयेऽपि ज्ञानतपः|संयमा अपि प्रकाशव्यवदानानाश्रवव्यापारतयेत्येतत् तात्पर्य, सर्वथा विरजस्कत्वं हि गृहविशुद्धिस्तत्र पूर्वरजोऽपनयने संमार्जनीमार्जनं, निःशेषतदपनयने च प्रदीपप्रकाशोऽनागततदभावे च स्वकारणविघटनद्वारा जालकस्थगनं निबन्धनमिति त्रयोपनिपातादार्थसमाजसिद्धा सा, तथा पूर्वकर्मापनयने तपः कामयेन तदपनयने ज्ञानमनागतकर्माभावे च स्वकारणविघटनद्वारा संयमो हेतुरित्येतत्रयोपनिपाते सर्वथा निष्कर्मत्वलक्षणो मोक्षोऽप्यार्थसमाजसिद्ध एवेति मन्तव्यम् । एतेन स्वभावभेदो व्याख्यातो व्यापारादिभेदस्यैव तदर्थत्वात् , कथमन्यथा दण्डचक्रादीनामपि भिन्न டுடுடுடுடுடுடுடுடுசCFFFFFC SOGGGGGGGGGGGGGOGOOGGGGO Jain Education in For Private & Personel Use Only Mainelibrary.org
SR No.600058
Book TitleAdhyatmamatpariksha Swopagnyavruttyupeta
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages240
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy