________________
OOOOOOOOOGGEE
संबन्धेन दण्डादेः स्वप्रयोज्यातिशयितचारित्रसंबन्धेन ज्ञानादेश्च स्वेतरसकलकारणसमवधानव्याप्यसमवधानकत्वं निधिमितिचेन्न स्वतस्तथात्वस्य विशेषार्थत्वात् , स्वतस्त्वं च समवधाने कारणान्तराघटितत्वमित्यायुहनीयं ॥६०॥ अथ निश्चयव्यवहारयोविषयविशेषमुक्तं(क्त)स्वरूपयोरप्यतिदिशति__एवं ववहाराउ बलवन्तो णिच्छओ मुणेयवो । एगमयं ववहारो सवमयं णिच्छओ वत्ति ॥६१॥
एवं व्यवहारावलबान्निश्चयो भुणितव्यः । एकमतं व्यवहारः सर्वमतं निश्चयो वेति ॥ ६१ ॥ विषयस्य बलवत्त्वादेव खलु व्यवहारनयान्निश्चयनयोऽतिरिच्यतेऽथवा यस्य कस्यचिद्व्यवहारानुकूलस्यैकस्य नयस्थ मतं व्यवहारोऽनुमन्यते पारमार्थिक सकलनयमतं तु निश्चय इति विषयबहुत्वादप्यस्य विशेष इति ध्येयं । उक्तं च भाष्ये
“अहवेगनयमयं चिय, विवहारो जंन सबहा सर्व। सबणयसमूहमयं, विणिच्छओ जं जहाभूयंति ॥१॥"॥६॥अथ समर्थि-10 लातमेव निश्चयनयविषयविशेषमसहमानो व्यवहारवादी सिंहावलोकितन्यायेन प्रत्यवतिष्ठतेअहिया जइ तुह किरिया अहियं नाणंपि तस्स हेउत्ति।कारणगुणाणुरूवा कजगुणा व विवरीया ॥२॥
अधिका यदि तव क्रिया, अधिकं ज्ञानमपि तस्य हेतुरिति । कारणगुणानुरूपाः कार्यगुणा नैव विपरीताः ॥ ६२ ॥ | यदि हि युक्तिकलापेन भवतातिशयवती क्रिया व्यवस्थापिता, तर्हि सैव भगवती स्वकारणं ज्ञानमतिशयितमाह स्वापेक्षया तस्यातिशयोऽस्तु नतु स्वकार्यापेक्षयेति चेन्न । “दासेण मे खरो कीओ दासो वि मे खरोवि ।” इति न्यायात् स्वकार्यकार्यस्यापि स्वकार्यत्वाविशेषात् , अस्तु वोक्तातिशयशालिकार्यकत्वलक्षणः पारिभाषिक एव विशेषः।
00000000000000000
Jain Education in
For Private & Personal Use Only
ainelibrary.org