________________
अध्यात्म
परीक्षा वृ०
॥३२॥
तदुपधानरूपातत् , कार्यमहत्त्वस्य कारणमहत्त्वाधीनत्वात् , क्वचित्तु भ्रमिध्राण्याद्यतिशयितसमूहरूपमदकार्य प्रति गुडदाक्षेवरसादिषु तदवयवजनकत्वरूपा सा तदुक्तं । “भमिधणिवितण्हयाई, पत्तेयं पिहु जहा मयंगेसुत्ति” एतेन तस्यास्तदानीं तैरुत्पाद्यत्वेनास्वीकारात् मृत्पिण्डदण्डकुलालादिसामग्र्या घटवदिति दृष्टान्तः कार्यमात्रतायां द्रष्टव्यो न तु प्रत्येकाजनककारणकार्यतायामुक्तभाषाविरोधप्रसङ्गादित्यवधेयं । ज्ञानचारित्रयोश्च कृत्स्नकर्मक्षयलक्षणं मोक्षरूपकार्य प्रति निर्जरारूपदेशकर्मक्षयजनकत्वं देशोपकारित्वं प्रत्येकमविशिष्टमिति प्रतिभाति । एवं ज्ञानक्रिययोस्तुल्य(व)त्वमुपदिश्य विशेषमावेदयतितुल्लत्तमवेक्खाए णियमा समुदायजोगमहिगिच्च । किरिया विसिस्सए पुण नाणाउसुए जओभणिय।५९।
तुल्यत्वमपेक्षया नियमात्समुदाययोगमधिकृत्य । क्रिया विशेष्यते पुनर्ज्ञानात श्रुते यतो भणितम् ॥ ५९॥ जम्हा दंसणनाणा संपुन्नफलंन दिति पत्तेयं । चारित्तजुआ दिति हि विसिस्सए तेण चारित्तं ॥६०॥
यस्माद्दर्शनज्ञाने संपूर्णफलं न दत्तः पत्येकम् । चारित्रयुते दत्त एव विशिष्यते तेन चारित्रम् ॥ ६॥ ___ यद्यपि मोक्षलक्षणे कार्ये ज्ञान क्रिये तुल्यवद् व्याप्रियेते तथापि कालतो देशतश्च स्वेतरसकलकारणसमवधानव्याप्यसमवधानकत्वलक्षण उत्कर्षश्चारित्रक्रियाया एव, न खलु षष्ठगुणस्थानभाविपरिणामरूपं चारित्रं चतुर्थगुणस्थानभाविपरिणामरूपं ज्ञानमन्तरेण, न वा चतुर्दशगुणस्थानचरमसमयभावि परमचारित्रं त्रयोदशगुणस्थानभावि केवलज्ञानमअन्तरा संभवति । इत्थं च घटकरणेष्वपि दण्डादिषु चरमकपालसंयोग एवातिरिच्यते । अथ स्वप्रयोज्यविजातीयसंयोग
00000000000000
-
॥ ३२॥
Jain Education
For Private Personal Use Only
ainerary