SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ जनकचिकीर्षाया ज्ञानाधीनत्वाद्योगनिरोधस्यापि विशिष्टोपयोगसाध्यत्वाच्चापि च ऋजुसूत्रनयमतेऽपि केवलज्ञानमपि लक्षणपरम्परापर्यवसन्नमेव, तत्र च शैलेशीचरमक्षणे ज्ञानचारित्रभावेन परस्परमुपश्लिष्टस्वभाव एव मोक्षजनक इति ॐ तत्क्षणत्वेन द्वयोर्जनकत्वं तुल्यमेव । न च तथाजनकतायामतिप्रसङ्गस्तत्क्षणपरिणतात्मनः तद्धेतुतया स्याद्वादप्रवेशेनाॐ नतिप्रसङ्गान्न च ज्ञाननिरूपितत्वचारित्रनिरूपितत्वलक्षणविरुद्धधर्माध्यासादेकस्य तत्क्षणस्य भेदप्रसङ्ग इति वाच्यं ? | एकत्र ज्ञाने नीलपीतादिनानाज्ञेयाकाराणामिवान्यत्रापि युगपन्नानाधर्माणां समावेशस्याविरुद्धत्वादिति दिग् । ननु ज्ञानक्रिॐ ययोः प्रत्येकं मुक्तिजनकशक्त्यभावात् समुदायेऽपि कथं तज्जननं उक्तं च । “पत्तेयमभावाउ, णिवाणं समुदियाॐ सुविण जुत्तं । नाणकिरियासु वोत्तुं, सिकतासमुदाय तेवति ॥ १ ॥ चेन्मैवं, प्रत्येकं देशोपकारिणः समुदायस्य सर्वो@ पकारकत्वात् ॥ उक्तं च । “वीसुं ण सबह च्चिय, सिकयातेलं व साहणाभावो । देसोवगारिया जा, सा समवायम्मि संपु२ ण्णत्ति ॥ २ ॥” ननु केयं देशोपकारिता? किं सूक्ष्मकार्यजनकता उत तदभिव्यञ्जकता आहोस्वित् सामग्र्येकदेशत्वं ? नाद्यः दण्डचक्रादिभिरपि प्रत्येकं सूक्ष्मघटजननप्रसङ्गात् । न द्वितीयोऽलब्धात्मलाभस्य तस्याभिव्यक्त्यसंभवात् ॐ सति वस्तुनि ज्ञानजननयोग्यं ह्यभिव्यञ्जकमुच्यते प्रदीपादिवदिति । न च दण्डादिना प्रत्येकमभिव्यज्यमानमपि सूक्ष्मं घटमीक्षामहे, अलक्षणीय तत्सूक्ष्मतायां चाभिव्यक्तिवचोविरोधोऽतिप्रसङ्गश्च । तृतीये तु सामग्र्येकदेशत्वमपि तज्जनकत्वपर्यवसन्नं न प्रत्येकमितरत्तु दुर्वचनमिति चेन्न; सहकारिवैकल्यप्रयुक्त कार्याभाववत्त्वरूपाया एव देशोपकारितायाः सार्वत्रिक्याः प्रत्येकमभिधित्सितत्वात् क्वचित्तु तिलादिषु प्रत्येकं तैलादिकं प्रति देशोपकारिता सूक्ष्म Jain Educationonal For Private & Personal Use Only 5000006606006066666 www.jainelibrary.org
SR No.600058
Book TitleAdhyatmamatpariksha Swopagnyavruttyupeta
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages240
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy