________________
0
अध्यात्म०
परीक्षावृ०
॥३१॥
00000000000000000
मतम् । यतः स्त्रीभक्ष्यभोगज्ञो न ज्ञानात् सुखितो भवेत् ॥ १॥” इति "तथागमेप्युक्तम् । सुबहुंपि । नाणं सविसयणिययं न नाणमेत्तेण कजणिप्फत्ती। मग्गण्णू दिलुतो होइ सचेठो अचेट्ठोय॥१॥आउजनदृकुसलावि नट्टिआ तंजणंण तोसेइ। जोगं अजुंजमाणी णिंदं खिंसंच सालहइ।।इयनाणलिंगसहिओ काइअजोगंण झुंजई जो उ।ण लहइस मुक्खसुक्खं लहइ अजिंदं सपक्खाउ।।जाणंतोविय तरिकाइअजोगं ण झुंजई जोउ।सो वुज्झइ सोएणं एवं नाणी चरणहीणो।४। तथा जहा खरो ॥१॥” इयं च क्षायोपशमिकी क्रियामाश्रित्योक्तं, क्षायिकमपि चारित्रमेव प्रधानं न हि केवलिनोऽपि शैलेश्यवस्थाभाविनीं सर्वसंवररूपां चारित्रक्रियामनुपलभ्य निर्वाणभाजो भवन्तीति । तथाचानन्तर्येण फलहेतुत्वात् क्रियैव प्रधाना पारम्पर्येण कारणत्वाद् ज्ञानं तु गौणमिति । अत्रायं स्थितपक्षोऽविनाभावित्वानन्तरभावित्वयोर्द्वयोरेवाविशेषात्तुल्यत्वमेव तयोर्न हि ज्ञानं विनेव प्रवृत्तिं विनापि फलमुत्पद्यते, न वा भक्ष्यभोगादिप्रवृत्तिकाले शैलेश्यवस्थायां वा ज्ञानं नास्तीति । प्रवृत्तिमात्रं न फलप्रदमिति चेद् ज्ञानमात्रमपि न तथा, संवादिज्ञानं फलजनकमिति चेत् संवादिनी प्रवृत्तिरपि तथा, स्यादेतत् ज्ञानस्य प्रवृत्तावेव हेतुता फलप्राप्तिस्तु प्रवृत्तेरेव, न च प्रवृत्तिकाले ज्ञानमप्य|स्त्येवेति तस्य फलहेतुत्वमित्युक्तमेवेति वाच्यं, घटे दण्डरूपवत्तत्र तस्यान्यथासिद्धत्वादिति मैवम् नाणकिरियाहि मोक्खो इति वचनात् । पारंपरप्पसिद्धी दसणनाणेहि होइ चरणस्स । पारंपरप्पसिद्धी जह होइ तहन्नपाणाणं इति- वचनात् च ज्ञानस्य क्रियाद्वारेण मोक्षजनकत्वकल्पनान्न च द्वारेण द्वारिणोऽन्यथासिद्धिरस्ति अन्यथा दण्डादेरपि चक्रधम्यादिना घटादावन्यथासिद्धिप्रसङ्गात् । अथ चारित्रं चारित्रावरणक्षयादेव न ज्ञानादिति चेन्मैवं प्रवृत्तिरूपचारि
TTTTTTTTTTTTvT4 T5
॥३१ ।।
T6 TT
JainEducation in
For Private 3 Personal Use Only
M
ainelibrary.org