SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ Jain Education In 9000099999355000096509 1909 हारादन्यथा सर्वस्य सर्वसदृशत्वापत्तेर्न च सद्भावस्थापना सादृश्यप्रतिसन्धानं विना स्थाप्यस्मरणाय प्रभवति यद्यप्युत्सर्गत: स्थापनायां स्थाप्याभेदाध्यवसाय एव संभवी तथाऽपि वासनादायें क्वचित्तटस्थतयाऽपि तत्स्मरणं शुभाध्यवॐ सायमाधत्ते इत्येवं स्मरणाधायकतयाऽपि स्थापनोपयोग इति ध्येयं । न चात्र तत्संभवतीति किमति प्रसक्तानुप्रसक्त्या ? | तस्माद्रव्यलिङ्गभावलिङ्गयोर्व्यवहारनिश्चययोः समायोगे च्छेकत्वमेव, केवलज्ञानादिरूपार्थक्रिया तु निश्चयादेव, नचायमपि निश्चयो व्यवहारमनन्तर्भाव्य न प्रवर्तेत सहस्रसङ्ख्येव पंचशतीमिति वाच्यं, अन्तर्भावो हि स्वसामग्रीव्याप्य- ॐ सामग्रीकत्वं स्वविषयत्वव्याप्यविषयताकत्वं स्वकार्यतावच्छेदकत्वं स्वरूपभेदमात्रातिरोहितैकत्वशालित्वं वा ? नायं निश्चयेऽसद्भूत व्यवहारस्य संभवत्यपि तु शुद्धव्यवहारस्यात एवाह । “कत्थइ २ दोहवि उवओगो तुल्लवं चेवत्ति ।” कुत्रचित्कुत्रचिदिह ज्ञानक्रियादिस्थले द्वयोर्ज्ञानक्रिययोस्तुल्यवदेवोपयोगस्तथाहि ज्ञाननयो मन्यते ज्ञानमेव मुख्यं न + क्रिया मिथ्याज्ञानात् प्रवृत्तस्य फला (वि) संवादात्तदुक्तमन्यैरपि “विज्ञप्तिः फलदा पुंसां न क्रिया फलदा मता । मिथ्याज्ञानात् प्रवृत्तस्य फलासंवाददर्शनात् " इति तथागमेप्युक्तं । “पढमं नाणं तओ दया १ जं अन्नाणी कम्मं खवेइ २ तथा पावाउ विणिवित्ती पवत्तणा तहय कुसलपक्खमि । विणयस्सय पडिवत्ती तिण्णिवि नाणे समप्यंति" इदं च क्षायोपशमिकज्ञानमाश्रित्योक्तं, क्षायिकमाश्रित्यापि ज्ञानस्यैव प्राधान्यं, न हि केवलज्ञानमनवाप्य तीर्थकरादयोऽपि सिद्धिमध्यासत इति, ततो ज्ञानमेव कारणत्वात्प्रधानं क्रिया तु तत्कार्यतया गौणीति । क्रियानयस्त्वाह-क्रिया हि फलदायिनी ज्ञानस्यापि तज्जननेनैवोपक्षीणत्वात् जानतोपि क्रियां विना फलप्रात्यश्रवणात्तदुक्तमन्यैरपि “क्रियैव फलदा पुंसां न ज्ञानं फलदं For Private & Personal Use Only w.jainelibrary.org
SR No.600058
Book TitleAdhyatmamatpariksha Swopagnyavruttyupeta
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages240
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy